SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६६ द्वादशारनयचक्रे प्रवर्तेत न क्रियापि स्याद्र्व्यं प्राक् केनचिद्गमनादिप्रकारेणावृत्तं तदेवेदानी पवादपि अप्रवृत्तत्वात्, भवदेव हि भवति न निरुपाख्यम्, यदि निरुपाख्यमपि स्यात् खपुष्पमपि स्यात्, खपुष्पमपि वाऽभविष्यत् त्वदभिमतद्रव्यवत्, अभवद्भवनात् । ___अनैकान्तिकमेव तत्, आकाशादीनामप्रवृत्तिभवनानां सत्त्वदर्शनादित्येतच्चायुक्तम्, तद्विपक्षत्वासिद्धेः आत्मायपि च प्रवृत्तमेव द्रव्यत्वात्, तन्तुवदीजवदिति, तस्मात्तेन तेन प्रकारेण परिणममानं प्रवर्त्तमानं वस्तु भवतीत्युच्यते। तथा च चैतन्यादिलक्षणताऽऽत्मादेरुपपद्यते तथाभवनप्रवृत्तिसामर्थ्यात् द्रव्यत्वतुल्यत्वे सत्यपि। __ अथ तु प्रवृत्तिभूतिरित्येवाद्रव्या ततो नैव स्यादात्मा पूर्ववत्, भवदेव हि भवति द्रव्यार्थतः, एतदनिच्छतोऽस्थितभवनसाधर्म्यात् खपुष्पमपि वा स्यादद्रव्यत्वाद्भाववत्, भूतार्थसामर्थ्यादेव हि प्रवृत्तिः, गुणाद्यपि च द्रव्यमेव प्रवृत्तत्वात्तन्त्वादिवत्। ____ भवतीति भावः स च कर्ताऽकर्ता च द्रव्यम्, यतोऽसौ भवतीति भावः तद्रव्यं स भावो, भवनसम्बन्धाद्भवतीति भवति तस्मात्तद्भवनं भावः सा क्रिया। अत एव तदर्थगतेः 'प्रकृतिपर एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपरैव च प्रकृतिरिति व्युत्पत्तिः, उभयार्थवत्त्वप्रदर्शनाय च कोऽसौ भावो नामेति प्रश्नोपक्रमं व्युत्पाद्यते क्रिया, यत्तद्भूयत इति, १. महाभाष्ये. अ. ३ पा. १ सू. २
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy