________________
पञ्चमोऽरः उभयनयः
१६५ पचतिगच्छत्यादिक्रिया द्रव्याद्देवदत्तादेः, एवं तस्मिन्नेव वस्तुनि गुणादीनामन्तर्भावात् पदार्थान्तरकल्पनावैयर्थ्यम्।
अद्रव्यद्रव्यवद्र्व्यसंयोजनवियोजनरूपरसगन्धस्पर्शशब्दोत्क्षेपणापक्षेपणभवनविशेषसमवयनादयो भवनमेव, न गुणादयः सन्ति, द्रवति जानाति इच्छति द्वेष्टि नियतते. संयुनक्ति वियुनक्ति श्वेतते इत्याद्याकारकलकारेण कर्तृवाचिना क्रियाविशेषाणां सकर्तृकाणामभिधानात्।
पृथिव्यादिसंयोजनवियोजनादीनामभावेनमूलादि, भावो वेति द्रव्यभावपरिग्रहो युक्तः।
एवञ्च कृत्वा नहीह कश्चिदपि स्वस्मिन्नात्मनि मुहूर्त्तमप्यवतिष्ठते वर्द्धते वा यावदनेन वर्द्धितव्यमपायेन वा युज्यत इति ग्रन्थः, नहि कश्चिदर्थो द्रव्यं स्वस्मिन्नात्मनि निर्भेदनिरूपाख्ये मुहूर्त्तमपि अवतिष्ठते, अपिशब्दायावत्समयमपि नावतिष्ठते, एतेन वृद्धिहानि सततसम्प्रवृत्तिरूपं सर्वं वस्त्विति द्रव्याऽऽख्यानमेव कृतम्, वर्द्धते यावदनेन वर्द्धितव्यमिति तु पुनः यत्परिमाणस्य यावदिति नियतपरि -माणां वृद्धिं दर्शयता तस्यैव द्रव्यस्यावस्थितस्यावस्थाविशेष एव वृद्धिरिति दर्शितं भवति, तथाऽपायोऽपि, यावदनेनापेतव्यं तावदेवापायेन वा युज्यत इति।
तस्मादयमपि ग्रन्थो द्वयात्मकदर्शनेनैव नेतुं शक्यते, सन्निहितव्यक्तियुक्तत्वात्, तत्र द्रव्यमेवेति तावन युज्यते, यदि तु द्रव्यमित्येवाक्रियमभवनमभविष्यत् ततो नाभविष्यत्, यदि न