________________
पञ्चमः उभयनयः
सत्यमेतद्यदुच्यते त्वया भवतीति भाव इति किन्त्विदं द्रव्यमेवार्थ इति विरुध्यते अभ्युपगमेन स्ववचनेन वा तदवयवेन वा, भवतीति द्रव्यमिति वैकस्मिन्नेव पदे प्रकृतिप्रत्ययार्थभेदोपादानात्।
यत्तद्भवति तस्य भावत्वादपि यत्तदिष्टं द्रव्यं तद्भावोऽपीति भवनस्य द्रव्याद्भिन्नत्वात्, अतोऽन्यथाऽसत्त्वात्, यदि द्रव्यं भावोऽपि न स्यात्ततस्तदसत् स्यात्, अभावत्वात् खपुष्पवदिति न द्रव्यमात्रमुत्क्षेपणादि, तस्माच नैकं सर्वमनन्तरनयदर्शनम्, न सर्वमेकं पुरुषनियत्यादिनयदर्शनम्, नापि विध्युभयदर्शनम्, किं तहि? उभयं द्रव्यं भावश्च, अस्य प्रधानत्वञ्च तुल्यबलत्वात्।
- तत्र सम्मूर्च्छितसर्वप्रभेदनिर्भेदं बीजं द्रव्यमित्येतद्रव्यलक्षणम्, तथाभवनाविनाभूतसनिधिवस्तुत्वव्यक्तिः क्रिया प्रवृत्तिः भावः।
वदनगतक्रमपताकिकासन्ताननिष्कासवत्, यथा मायाकारकवव्यादनुत्पादव्ययात्मकात् पृथिव्यादेर्मूलादयो यथास्वं पताकिकामालावक्रियात्मानो नियता एव क्रमेण निष्कसन्ति, तथा