________________
चतुर्थो विधिनियमारः
१६१
तद्द्रव्यत्वात् पृथिव्यादिव्रीह्यादिपृथिव्यादिवत् तद्द्रव्यत्वम सिद्धमिति चेन, अवगाहादेव द्रव्यं यथा वियदादि एवमात्माद्यपि, तस्यैव तथाभूतैः; उदकादिव्रीहित्वशिवकादिघटत्ववत् ।
अविभक्तावगाहस्यात्मादेरविभक्तमवगाह्यमप्याकाशमित्येकमेवेदं भवनम् तत्पुनरन्यत्र मिथ्याग्रहोत्थापितनानाप्रभेदं विकल्पितम्, तान् प्रति सर्वगतेतराभिमतद्रव्यस्वरूपमुत्क्षेपणादि, तदव्यतिरिक्तत्वात्, घटघटभवनवत्, यथा घट एव घटभवनं न ततोऽन्यत् ततस्तदव्यतिरिक्तम्, यद्यन्यत् स्यात् घटो न भवेत् भवनादन्यत्वात्, खपुष्पवत्, भवनं वा तस्य न स्यात् ततोऽन्यत्वात् पटभवनवदिति ।
एवं पचिक्रियापि कचिदप्यनतिक्रान्तद्रव्यस्वरूपा, उत्क्षेपणादिवदेव पृथिव्यादिकाष्ठादि द्रव्यमात्रं भवनमेव, स च भावः पुरुषादि नियतचेतनाचेतनविकल्पद्वैतविशेषणविनिर्मुक्तः सर्वात्मकः, यथा घटादि पटो भवति व्रीहिरुदकं मनुष्यो नभो धर्माधर्मादि वा, पटोsपि घटो व्रीहिरुदकादीत्यविशेषेण सर्वं भवत्येवैकैकम् ।
तदेव हि भवनं यत्सर्वात्मकमसद्व्यावृत्त्यर्थम् न ह्यसनाम किञ्चिदस्ति, अनेन हि प्रवर्त्तयितृत्वात् सर्वप्रभेदेन भूयते न न भूयतेऽपि तदात्मानेतिरिक्तत्वात्, बालकुमारादिवत्, अन्यथाऽभाव - त्वापत्तेः
यद्येवं नेष्यते त्वया प्रागभावादिनापि भवत्येवेति, ततस्तस्य देवदत्तादेर्बालकुमारादिसर्वावस्थात्मपरित्यागे किं तद्देवदत्ताख्यं वस्तु? कास्तास्तद्व्यतिरिक्ता बालाद्यवस्थाः ? इत्यभाव आपद्यते ।