________________
१६०
द्वादशारनयचक्रे
एवञ्चकृत्वा तस्यैव तत्तदितरवदविभक्तद्वयात्मकतायां द्विविधः प्रवृत्तिप्रवन्धः फलपरिणामप्रबन्धः प्राग्भवीयकर्माख्यपुरुषकारस्य साध्योऽसाध्यश्व, तीव्रमन्दादिहेतूपसेवनसञ्चितत्वात् साध्यासाध्यव्याधिवत्, चलनीयोऽविचल्यश्च बद्धाबद्धमूलत्वात् वृक्षहट्टवत्, निकाचितानिकाचितावयवत्वात्, अयःशलाकाकलापवत्। ____ परिणमनमपि च तस्यापि पूर्वकर्मणः पुरुषकारस्य विषयो न विषयः कचित्, अप्राप्तप्राप्तविपरिणामावस्थत्वात् पुष्पतुग्दृढफलवत् एवञ्च क्रियासहायश्च स फलं प्रयच्छति, क्रियासहायस्य फलप्रदाने सापेक्षानपेक्षशक्तित्वात्, भारोत्पाटवत् ।
सोपक्रमस्य क्रियापेक्षा न निरुपक्रमस्य, तत्र सोपक्रमस्य कर्मात्मनः पुरुषात्मनैकीभूत स्योदयोपशमक्षयोपशमक्षया अवस्थाः सापेक्षा भवन्ति, मदनफलाद्वमनवत् भस्मपटलाच्छन्नाग्निवत्, दरविध्यातावच्छन्नज्वलनवत्, तृणदाहवद्वा।
एवमनयैव दिशा पुरुषकारैकान्तवादः प्रतिषेध्यः तद्यथा - कर्म च कारणं प्रवर्त्तयितृत्वात् सुखदुःखोत्कर्षापकर्षविकल्पानुभवावश्यंभावितस्य चैकस्यैवोक्तवत् सर्वोपयोगत्वात् पुरुषतापीत्यादि सर्वमशेषं योजनीयम्, अत्रैकस्य स्वातन्त्र्यं तत्तत्प्रदर्शित तत्त्वस्येतरस्यापीति भावनीयम्, यथा चात्र तत्त्वं कर्मात्मनोः सर्वप्रभेदेषु वृत्तं भावितमस्माभिस्तथाऽवगाहादिलक्षणैरस्तिकायैः सह, कर्मात्मविचारोक्तात् प्रवर्तकप्रवर्त्यन्यायात्।