________________
चतुर्थो विधिनियमारः
१५९
प्रदेशोऽपि सर्वात्मना सर्वैः प्रदेशैाह्ये उपयोगं यायात्, मृत्पिण्डः शिवकादिभावमिव, उपयोगमगच्छन्ननुपयुज्यमानोऽचेतन एव, पटानुपयुक्तघटादिवत्, चेतनो झुपयोगलक्षणस्तदभावादचेतनः स्यादिति।
आत्मस्वतत्त्वज्ञानावरणायुदयप्रवृत्त्यव्यतिरिक्तरूपत्वाचात्मा पुद्गलस्वतत्त्व एव तादात्म्यप्रतिपत्तेः।
नन्वेवं पुद्गला एवात्मा प्राप्तः तस्योपयोगात्मनः पुद्गलत्वात् योऽयं पुद्गलोपयोगः स चात्मोपयोगः एव, उपयोगव्यतिरिक्त रूपादेरभावात्, तस्मात् कुतोऽस्य रूपाद्यात्मकतेति, एतन्न, उपयोगात्मकत्वादेव रूपादीनामप्युक्तवत्, अनेन सर्वमपि सर्वात्मकम्, आत्मपुद्गलयोरितरेतरात्मकत्वात्, एवश्च कर्मैव कारणं पुरुषकार एव कारणमित्येकान्तमसम्बद्धमिति।
इदानीं तु प्रत्येकप्रत्युक्तिभावना दिक्, कर्मैकान्तवाद प्रत्युक्तिदिक् तावत् प्रवर्त्तयितृत्वात् पुरुषश्च कारणमुत्कर्षार्थी, तस्यैवोक्तवत् सर्वत्वात्, असावेव पुरुषः प्राणादिमांश्चेतनः कर्मापि, अस्मिन् पक्षे कर्मादिसर्वसर्वत्वात् किं तदन्यत् कर्मेति, तस्यैव कर्मतापि, तस्मादेव पुरुषकाराणां तत्साध्यानाञ्च सिद्धयोऽसिद्धयथ नाना स्युरेव । उत्कर्षपरम्पराया बहुप्रभेदाया अपि आमुक्तेः पुरुषस्यैवाव्यतिरिक्तभिन्नकारणत्वात्, अहिभोगविस्तरणाकुश्चनवत्, तथाऽनतिरेकातिरेकात् कर्मापि प्रवर्त्तयितु।
चेतनाचेतनपरमार्थत्वाच्च पुरुषस्य, इष्टानिष्टविधिव्याप्रियमाणत्वात्, अथैवं नेष्यते त्वया ततोऽसौ भवेत् पशुवन्मनुष्यत्वेनापि गम्यागम्यभक्ष्याभक्ष्यायविशेषज्ञः तद्वत् पशुरपि वा विशेषज्ञः।