________________
१६२
द्वादशारनयचक्रे न चेतनोऽचेतन इति नत्रा प्रतिषेधवाचिना सम्बन्धादचेतन रूपेण चेतनस्य भावाभावादभाव इत्यत्र ब्रूमः, अचेतन इति चेतनादन्य आत्मैवोक्तः स्पर्शास्पर्शादिधर्मणस्तस्यैवोपयोगाद्यस्पर्शरूपा दन्येन रूपेण स एव स्पर्शादिमान् ज्ञानावरणादिकर्मरूप आत्मा।
न तु भवन्मतात्यन्तचेतनाभावरूपेण चेतनो न भवत्यचेतन इति चेतना न भवत्यचेतनेति ज्ञानादि न भवतीत्यज्ञानादि वोच्यते किन्तु चेतनाया अन्याऽचेतना स्पर्शादि, ज्ञानादेरन्यदज्ञानादीति, प्रसज्यप्रतिषेधस्तु नेष्यते यथा चेतनो न भवत्यचेतन इत्यादिरिष्यते त्वया ततस्तथा सर्वतो व्यावृत्तेश्चेतनाचेतनयोर्ध्यावृत्तिः स्यात्, निर्विशेषव्यावृत्यर्थत्वान्नत्रः स्वतोऽपि व्यावृत्तेः खपुष्पवदसत्त्वा दन्यत्वाच तत्त्वमेव चेतना।
ज्ञानदर्शनादिसंवेदना सापि च निवृत्त्युपकरणलब्धितत्त्व उपयोगात्मा, अतो रूपादिमदप्यात्मा, चेतनत्वात् अभिमतात्मवत्, तस्यैव तथाभूतत्वात् एवश्च कृत्वा ज्ञानमज्ञानं पुद्गलात्मकत्वात् रूपादिवत्, अज्ञानमपि च ज्ञानं तत एव तद्वत्, चेतनोऽचेतनः, अचेतनश्चेतन इत्यादि सर्वत्र सर्वसर्वात्मकत्वं भावनीयमिति।
एवञ्चायं सङ्ग्रहेषु द्रष्टव्यः, तेऽपि च सङ्ग्रहाः त्रिविधा द्रव्यस्थितनयप्रकृतयः, तेषु वाऽयं द्रव्यप्रकृतिनयः स्थितप्रकृति विरोधिनोरधिष्ठातृप्रधानयोर्विपक्षः।
स च सङ्ग्रहैकदेशत्वाव्यार्थः, द्रव्यशब्दोऽपि कर्तृसाधनो द्रव्यमिति द्रवति याति न विच्छिद्यते भिन्नरूपमुपव्याप्त्येति । ननु कर्मणि कर्मसाधनत्वमुदितम् तत्कथमधुनाऽवधार्य द्रवतीति द्रव्यं कर्तृसाधनम्?, उच्यते ननु कर्मसाधनव्याख्यानेन तेनैव कर्तृसाधन