SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ चतुर्थो विधिनियमारः तस्मात् सर्वाण्येतानि कर्मण एवेति चेत्, त्वमिदमसि तावत् प्रष्टव्यः, 'अथ तदादिकर्म कुतः ? किं तदपि कर्मण एव? उत पुरुषात्?' इति, ब्रूयास्त्वं 'ओमि' ति गत्यन्तराभावात् न, व्रीहिवैधर्म्येणाकर्त्तृकत्वात् कृतकत्वमपयाति, ततो वाडतो ब्रीहिरकृतकः, ततश्चाक्रियमाणत्वान्न कर्मत्वं तस्य आत्मादिवत्, उत्क्षेपणादिवदिति एवञ्च कृत्वा तदपि सर्वमसम्बद्धं यत्कर्मकारणैकान्तिन आहुः, यच्च पुरुषकारकारणैकान्तिन आहुः । १५७ कथमसम्बद्धम् ? नहि शुभमशुभं वाऽत्र किञ्चिदाभ्यन्तरं बाह्यं वा इष्टस्य कारणमनिष्टस्य वा, सर्वमेतदिष्टकारणमप्यनिष्टकारणमपि शुभमप्यशुभमपीति गृहाण, यथा त्रिदोषघ्नं मोदकादि प्रमाणाप्रमाणकालाकालाऽऽहारितं तथैक एव शुभाशुभादिधर्मा ह्ययं पुद्गलकायः, पुद्गलनिरुक्तिकः कायः शरीरं चितत्वात् पुद्गलस्य पुद्गलस्येव वा कायः इति भोक्तृभोग्यात्मकविपरिणामवृत्तित्वात्, आहारंवत्, कायचैतन्ययोर्वा ऐक्यपरिणामापन्नयोरेव भोक्तृभोग्यविपरिणामवृत्तित्वं सिद्धमतो भोक्तृत्वाद्भेोग्यत्वाद्वा शुभोऽशुभव काय: ।.. .. तच्च न, उदकशुभाशुभत्वे प्रतिविशिष्टसदसद्योगकृते, तस्मात् उभयधर्मता सर्वद्रव्याणामित्येतच्च न, एकैकस्य सर्वरूपद्रव्य भवनपरमार्थत्वात् सर्वशुभाशुभेष्टानिष्टकारणत्वादिरूपो हि द्रव्य भवनपरमार्थः, एवं हि भावादेव भवद्द्रव्यं परमार्थतो भवति, • नान्यथा, अत्रानुमानं तदेव तत्, तत्परमार्थत्वात्, तद्वत्, एतदुक्तं भवति तत्तत्स्वरूपभवनपरमार्थत्वात्, तत्तत्स्वरूपवत् ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy