SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५६ द्वादशारनयचक्रे विशेषात्तु द्रव्यं द्रूयते गम्यते भोग्येन कर्मपुरुषेण तेन द्रव्यं क्रियते कर्मपुरुषेणैव कर्मपुरुषः क्रियत इत्युक्तं भवति, यथा ब्रीहिणैव ब्रीहिः क्रियते कार्येणैव बीजव्रीहिणाङ्कुरीहिरिति । ___ यच्चाप्येवं वादिनस्ते कार्यलक्षणत्वात् कर्मणः कार्यं कर्म यत्क्रियते तत्कर्मेत्यक्षरार्थाच्चानुमेयः कर्ता, तस्मात् कर्मणोऽन्यं कर्तारमन्तरेण कर्माभावात् घटस्येव कुलालोव्याप्येष्यः कर्तेति, तन्न, ननु कर्मणैव करिष्यते स्वत एव कर्मणा कर्म क्रियते, न तु तद्व्यतिरिक्तेन कāत्युक्तम्। ननु सुदूरमपि गत्वा त्वयाप्येतदभ्युपगन्तव्यं कर्मव्यतिरिक्तः कर्ता पुरुषोऽस्तीति, ब्रीहेरप्यावर्तकत्वात्, स्वरूपभेदात्, अक्षरार्थाच्च निर्विवादकृतकत्वात् कर्मणः कर्तुरेव भावः सर्वस्य, एवञ्च त्वदुक्तहेतोरेव कर्मव्यतिरिक्तपुरुषसिद्धेरावर्त्तकवैधपेण कर्मणः कृतकत्वं कर्थोत्तरभूतस्यावधारणञ्चायुक्तम्, तच्छक्तेः। न हि सा क्रियमाणाऽलब्धात्मवृत्तित्वादस्वतन्त्रत्वाच्च भवति, अभूतदेवदत्तवत्, अनिष्टश्चैतत्तवापि । पुरुषकारप्रत्याख्याने च सर्वशास्त्रवैयर्थ्यप्रसङ्गः, हिताहितप्राप्तिपरिहारावर्धा हि सर्व शास्त्राणाम्, ताभ्यां प्रमाणान्तरसंवादेन निरुक्तीकृतसत्यत्वानि चिकित्सितादीनिशास्त्राणि पुरुषक्रिययोरभावे निराकृतानि स्युः, नैवेष्यते तन्निराकरणमेवम्, त्वदुपदेशादिक्रियाणाश्च दृष्टार्थानाम्, कर्मप्रवृत्तिमात्रत्वात्तत्प्रतिपत्त्यप्रतिपत्त्योः। कर्मप्रवृत्तिमात्रत्वात्तत्प्रतिपत्त्यप्रतिपत्त्योः कर्मत एव भवतीत्युपपद्यते, प्राज्ञपुरुषप्रतिपत्तिवत् बलीवर्दायप्रतिपत्तिवच्च
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy