________________
चतुर्थो विधिनियमारः
१५५
कायेन्द्रियनिर्वर्त्तनेऽप्यनिष्टशरीरेन्द्रियादि न स्यात् सम्पन्ने न्द्रियजातिसंस्थानसंहननादियुक्त एव स्यात्, तस्मात्तत्सर्वमेव तत्कर्मण एव, तदतिरेकेण क आत्मनि प्रतिपद्येत? तस्मादहेतुः पुरुषस्तत्कारश्च।
__ अकारणमपि कर्म सहायापेक्षम्, कवलास्यप्रक्षेपादिवत्, अतो भारोत्पाटवत् फलोपहाराय तत्स्वामिनः कर्तुर्नयोद्योगावान्तरावपेक्ष्यौ, बाह्या च प्रकृतिरिति न मन्तव्यम्, तान्यपि हि स्वामिधर्माधर्मरज्जुनिबद्धानि तदायत्तत्वात्तद्भोग्यत्वात्तन्तुपटवत्, यदि तान्येवं नेष्यन्ते ततः सर्वाविशेषत्वप्रसङ्गः।
योऽपि स्वामिपुरुषकारः सोऽप्यधर्मफलत्वात् कर्मैव क्लेशत्वात्, अथैवं पुरुषकारं संक्लेशाधर्मफलं नेच्छसि ततो न तर्हि दुःखमधर्मफलमिति प्राप्तम्, शिरोरोगादिक्लेशत्वानयोद्योगपुरुषकारवत् । अथ प्रसिद्धिविरोधदोषभयाद्दुःखमधर्मफलमिति त्वयाऽनुज्ञायते तत्साचिव्यक्रियायाश्च हिंसादेरिष्टफलप्राप्तिरिति प्राप्तम्, धर्माधर्मफलविपर्ययात्।
अभ्युपगम्यापि पुरुषकारं दोषं ब्रूमः, स निर्हेतुकः सहेतुको वा स्यात्, यद्यहेतुकः मुक्तानामपि स्यात्, सहेतुकवेत् कर्मण एवार्चेतनाच्छुभादप्येनावाप्तेरशुभादप्यर्थावाप्तेः शुभाशुभवैचित्र्यमनुमातुं शक्यते, युक्तिक्षमहेत्वन्तराभावात्, नात्रान्यद्विमर्दक्षम कारणमस्ति।
यदा चैवं प्रवृत्तौ कर्मण एव कर्तृत्वं सिद्धं तदा द्रवतीति द्रव्यं कर्तृसाधनं न भवति, स्वतन्त्रस्य कर्तुरनुपपत्तेः, कर्मपरिग्रह