________________
द्वादशारनयचक्रे
मोऽवश्यम्भावी, तस्मात् सम्भूयकारित्वाचेतनत्वस्थित्वा प्रवृत्ती नामपक्षधर्मता, एकत्वात् ।
१५४
एवञ्च कृत्वा कर्मैकान्तवाददोषप्रकाशनमपि कृतं वेदितव्यम्, असम्बद्धत्वात्तस्य, पुरुषकारं निराकुर्वन्तः कर्म समर्थयन्तस्त इत्थमाहुः यदि प्रवर्त्तयितृत्वात् पुरुषकारः कारणं न कर्मापीति चेत्तत इदमनिष्टं ते प्राप्तम्, उत्कर्षार्थिपुरुषकारैकत्वात्, प्रधानमध्यमाधम भेदभिन्नाः पुरुषकारा न स्युः, ततश्च तत्फलभूताः सप्रभेदास्ताः सिद्धयोऽसिद्धयश्च नानाजातीया न स्युरव्यतिरिक्तकारणत्वात्, तुल्यतन्तुपटवत् ।
कार्यातिरेकात्तु कारणातिरेक इति कर्मैब प्रवर्त्तयितृ, द्विविधा च सिद्धिरसिद्धिः कार्यस्य कर्मणः कारणत्वे एव सम्भवति, नेतरस्य तत्र त्वदिष्टपुरुषव्यापारस्यावतारासम्भवात् चेतनस्य स्वशक्त्या धानासमर्थत्वात्, चेतनामात्रसारो हि पुरुषकारः शक्तिः, न च स तां स्वां चैतन्यशक्तिमिष्टे मनुष्यत्वे पशुत्वे वर्त्तमान आधातुं समर्थः, मनुष्यः सन् न पश्वादौ वा तस्यापि कर्मलभ्यत्वात्, अपि तर्हि संभाव्यं गङ्गायाः स्रोतसः कर्मणाऽन्यथा प्रवर्त्तनमिति ।
यापि चेष्टानिष्टतुल्यप्रवृत्ति: पुरुषस्योपक्रमप्रभृति यावच्छरीरं जह्यात् सा कर्मत एव वेतालाविष्टशवशरीरवत्, यथाऽऽहारविशेष ग्रहणखलरसादिभावविभजनाद्यसञ्श्चेतिताव्यक्तक्रियास्वस्वतन्त्र एव गर्भादिषु सुप्तः, ताः कर्मकृताः पुरुषो मत्कृता इत्यभिमन्यते तथाभासमानत्वात्, तत्कार्यतायां हि तासां कदाचिदकरणा भावादिहैवामृतत्वप्रसङ्गः ।