________________
चतुर्थी विधिनियमार:
१५३
तस्मादात्मा करणयुक्तः कर्मत्वेनादिकरः, तदपि च कर्म आदिकरम्, बाह्यमपि घटादिकं सर्वमादिकरम् ।
यथा चात्माऽकर्मणां कर्मत्वेनादिकरस्तथा प्राकू पश्चादपि कर्माssदिकरम्, तदादित्वादात्मनः तथाऽभिव्यक्तेस्तत्प्रयुक्तत्वाच्च, आदित्योदयादित्ववत् । तत्प्रयुक्तं कर्म, आत्मैव न कर्मभूतः आदित्योदयादित्ववदित्यत्रोच्यते, को वा ब्रवीति न कर्मभूतोऽसौ कर्माणि चात्मभूतानि नेति, आत्मापि कर्म भवति, कर्माप्यात्मा भवति तथाविधोपयोगगतेस्तत्प्रयुक्तत्वादित्यादिभिर्हेतुभिः, तस्मात् सर्वसर्वात्मकत्वात् कोsन्य ईश्वरः, का वाऽन्या प्रकृतिरिति ।
इतश्चान्योन्यादिकरता कर्मकर्मिणोः, अचेतनज्ञानावरणकर्म प्रयुक्तत्वादात्मनः ।
नन्वात्मपुद्गलैक्यापत्तिवचनादेव वा भेदप्रतीतेः स्ववचन विरोध इत्येतन्न, पालनपूरणपुरुषत्वात्, निरुक्तिभेदेऽप्यर्थैक्यात् । अथैवं नेष्यते ततो नैवात्मा बप्येत कर्मणा, ततश्व तत्फलभूतैः शुभाशुभैर्न युज्येत, विमुक्तत्वात् मुक्तवत्, मुक्तो वा बध्येत, तत एव तद्वत् ।
यदि त्वदृष्टाभावेऽप्यसावीश्वरः ततस्ते मुक्तानामपि तनुकरणानि भुवनानि च कुर्यात्, ईश्वरत्वात् सर्गादिवत्, प्रलयकालेऽपि सर्वेषां कुर्यात्तत एव तद्वत्, मध्ये वा न कुर्यात्, ईश्वरत्वात् प्रलयकालवत्, अनिष्टश्चैतत् अस्मात् कर्मैक्यात् सर्वसर्वात्मकत्वात् सर्वेश्वरता, अत एव चाणुत एव सुखादयः, तस्माददृष्टादितः सृष्टिरिति वादान्तरपरिकल्पितं त्यक्त्वाऽस्मदभ्युपग