SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५२ द्वादशारनयचक्रे किं स्थानविग्रहेन्द्रियविषयैः प्राणिभिर्वा? किमाधिकारिकैः? अथ मन्यसे तैर्विना शक्तिया॑हन्यते तस्य तर्यस्य व्याहतशक्तित्वात्तु अनीश्वरता कार्यान्तरासक्तेः श्रमाद्वा, इतरवत्। ननु प्रधानोपसर्जनद्वैतमुद्राह्य तदर्थसंवादेनोपसर्जनेन विनापि प्रधानस्य प्रवृत्तिसद्भावात् चित्राचार्यस्येव शिष्येण विनापि सर्गादौ तथाऽदृष्टायभावेऽपि प्राधान्यात्, भाव्यत्वादिति चेन, आदिकरस्य कर्तृत्वात्, अव्यज्यमानप्रकारव्यक्तिरादिः, आदानात्, आदित्यो दयादित्ववत्, तत्प्रयोजनपरमार्थत्वाद्भवितृत्वस्य, यः प्रयोजयति परमार्थतः स कर्ता भविता न प्रयोज्यो भूकृञोः सर्वधात्वर्थत्वात्। आदिकरत्वञ्च यथा व्रीहौ सम्भाव्यते, अब्रीहेम॒दादेबीहित्वेनादिकरत्वात्, तथा प्रागप्यादिकरत्वं तथा पश्चादपि, तदादित्वाद्बीहेस्तेषामादिकरत्वं तथाभिव्यक्तेः तत्प्रयुक्तत्वाच्च, ते ह्यस्य प्रयोक्तारः। तत्प्रयुक्तो व्रीहिः, पृथिव्यायेव न भूतो व्रीहिः, आदिकरत्वादादित्योदयादित्ववदित्यत्रोच्यते को वा ब्रवीति पृथिवी न भूतः, उदकादिश्च ब्रीहिरिति तत्प्रयुक्तत्वादीह्यादि वा पृथिव्यादि न भूतमिति, तत्प्रयुक्तत्वाव्रीहिरपि पृथिव्यवाद्याकाशादि भवति पृथिव्युदकवाय्वाकाशायपि च ब्रीहिमाषाम्रजम्ब्वादि भवति, तत्कृताहारोऽपि पृथिव्यादि ब्रीह्यादि, पृथिव्याद्यपि तत्कृताहार इतश्वेतश्चेति सर्वस्यैकैकस्य तदात्मकत्वात्तत्तदेव। पुरुषकर्मत्वस्यैवमेव, पुरुषः कर्ता कर्मयोग्यानां पुद्गलानां कर्मत्वेनादिकरः, तथाविधोपयोगगतेः।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy