________________
चतुर्थो विधिनियमारः
१५१ इयति विषये सुखमियति विषये दुःखमिति धर्माधर्मयोः सीमनि स्वके स्वके व्यवस्थापनम्, ततश्च सर्गादौ स्थानाद्यात्मके अपि न स्याताम्, अनियतविषयत्वात्, प्रलयवत्, अन्ते च स्यातामनियत विषयत्वात्, मध्यकॉलवत्, अथवा नियतविषयत्वात्तदापि स्याताम्, मध्यकालवत् मध्ये वा न स्यातामन्तवदिति।
अथोच्येत अत एव न सुखादिप्रवर्त्तनात्मिका धर्माधर्ममर्यादा, ईश्वरस्यैव सुखदुःखयोः प्रवर्तकत्वात्, यदि सा न प्रवर्त्तयति किमर्थमसौ तां व्यवस्थापयतीति चेदुच्यते, अयं धर्मोऽयमधर्म इत्येतावदुपदेशेन स्वरूपसंज्ञाव्यवस्थापनमसौ करोतीति।
___एतदपि तुल्यं पूर्वेण, असत्त्वात्, धारणाद्धानाद्वा धर्म इति निरुक्तेः, एतस्यार्थस्याभावे कथमसौ धर्म उच्यते तद्विपर्ययो वा कथमधर्म इति, धर्माधर्माविष्येते सुखदुःखकारणे हव्यभिचरिते, तस्मादयुक्तं संज्ञाकरणमात्रेण मर्यादेति। ___अथ तु तस्यैव रुचेः सुखं दुःखं च, न धारण-धानप्रवृत्त्यात्मकत्वात् - धर्मस्यातस्य वा, उच्यते धर्माधर्ममर्यादावचनस्यानर्थकत्वात्, यदुक्तं प्रतिबुद्धानां प्राणिनां धर्माधर्ममर्यादामुपदिभ्योत्तरकालं स्वमर्यादानुष्ठानानुरूप्येणेत्यादि तत्सर्वमनर्थकम्, सदैवेश्वरशक्तिमात्रवशादेव यथा तथा सुखस्य दुःखस्य वा यस्य कस्यचित् सिद्धर्धर्माधर्माकारणत्वादायन्तवत्तन्मर्यादावचनमनर्थकं
इति।
___ तथा द्वैतमपि त्यक्तं, साक्षाद्वयापारवचनात् तद्व्या-" वृत्तेस्तस्य सर्वथा सर्वदा सर्वत्र वाऽव्याहतवृत्तित्वात् किं धर्मादिना?