________________
१५०
द्वादशारनयचक्रे
अनुग्रहोsपि विपर्ययेणोच्यते दुःखहेतुदुःखात्मकाभ्यामिष्टानिष्टोपभोगस्य, विषकृतभोजनक्लेशनवत् । यञ्चोक्तं दुःखमपि तदृणमोक्षणवदनुग्रह एवेत्येतदप्ययुक्तम्, संसारमोचकव्याध चण्डालादि मारितसत्त्वानुग्रहप्रसङ्गात् सत्त्वनिकायकलिकलुष कृतात्मोपनिपातेनाऽऽज्ञाबाधे सत्त्वानुग्रहवदज्ञानप्रसङ्गाच्च तत्सायुज्यगमनेऽप्येवम्।
7
आद्यन्तवन्मध्येऽपि धर्माधर्मक्रियाः प्राणिनां न स्युः, फलाभावात्, ईश्वरवशादेवाऽऽद्यन्तमध्येषु फलसङ्करात्, ततश्व सर्व प्राणिनां निर्मोक्षः सर्वानिर्मोक्षो वा प्रसक्तः, तत्प्रसक्तौ क्रियाविलोप:, ईश्वरप्राधान्यात् ।
यत्तु सर्वशास्त्रार्थनियमनायादावनुध्यानाद्धर्माधर्माद्यपेक्षः स एव स्वशक्तितो जगत्सर्जनाय व्याप्रियते ततश्च प्राणिगणं धर्माधर्ममर्यादामुपदिश्य मध्ये तत्परिपालकान् ब्रह्मादीनाधिकारिकान् विनियुङ्के, अन्ते च शरीरेन्द्रियविषयानुपसंहृत्य प्राणिगणं कुशला शयकलङ्कशुद्धं स्थापयतीति ।
9.
इदमन्यथैवोद्ग्राह्यते ईश्वरकर्मणोः प्रधानोपसर्जनभावाभ्युपगमाद्वैतम्, भाव्यतेऽन्यथा स एव शक्तित एवान्यनिरपेक्ष इत्यवधारणादद्वैतार्थभावनात् एवंनियमनायेयमपि भावनातदनुध्यानात् पुण्यमुत्पाद्येत्येषाऽप्यद्वैतभावनैव । प्रत्युपसंह्रियते तु द्वैताद्वैते द्वे अपि त्यक्त्वा ।
तत्राद्वैतस्य त्यागस्तावत् धर्माधर्ममर्यादास्थापनवचनेन, मर्यादा, नामानतिक्रमस्थानं विषयतस्तु सुखदुःखप्रवृत्तिसीमा,