________________
चतुर्थो विधिनियमारः
१४९
सापेक्षोऽप्रतिहतस्वशक्तिवशादेव, ये पुनस्तदुपदिष्टमोक्षमार्ग प्रस्थिता -स्तांश्च सायुज्यं गमयति, पुनरन्तकाले च शरीरेन्द्रियभूतवत् तेषां धर्माधर्मावपि संहत्य तान् दिवससन्ध्यायां परिश्रमाभिभूतान् बालकान् पुत्रकानिव पिता प्रलयक्षपायां स्वापयतीत्यन्तेऽपि निरपेक्षा -प्रतिहतस्वातन्त्र्यः स एवेष्ट इति।
__अत्र वयं ब्रूमः - कर्मणामेव तन्निरपेक्ष्य प्रवृत्तौ तस्य प्रतिघातादपरिहृतपूर्वदोषत्वान किश्चिदेतत्, तत्कारित्वात्तज्ज्ञत्वमिति यत्सर्वज्ञत्वमाकाझ्यते तदपि नैव, अस्यानर्थकार्थप्रवृत्तत्वात् बालादिप्रवृत्तिवत् धर्माधर्ममर्यादोपदेशप्रवृत्तेरनर्थकार्थविषयत्वात्, न च धर्माधर्मयोः शरीरादिकारणत्वं, कारणलक्षणाभावात् यस्याभावे यस्याभावो यस्य च भावे यस्य ध्रुवो भावस्तत्कारणमितरत् कार्यमिति हि कारणलक्षणम्, न च धर्मायभावे शरीरायभावः, सर्गादौ तदभावेऽपि प्रभुसृष्टेः शरीरादिनिर्वृत्त्यभ्युपगमात्, धर्मादि भावेऽपि प्रलयकाले शरीरायभावाभ्युपगमाञ्च, तस्योपदेशसाफल्यानभिज्ञत्वञ्च निष्कारणशरीरेन्द्रियादिसर्जनादादिकाले, अदत्त फलकुशलाकुशलसंहारादन्तकाले च।
यथा चोपदेशानभिज्ञत्वं तस्य तथा प्राणिनामनुग्रहक्रियाया अपि, यदा तदैवं व्यामुहौव स्थितानां प्राणिनां भृतकवत् तेषां शरीरमुत्पादयामि धर्माधर्ममर्यादां प्रणयामि तत्र प्रवर्त्तयामि तत्फलैरनुबध्नामि तान् फलानुरूपमुपभोगं विद्याश्चानुगृह्णामीत्यायुपभोगविभाजनानुग्रहक्रियायामतिगरीयस्यां किमिति वर्त्तते इत्यत्यन्तपर-. वशत्वमेवैश्वर्यम्।