SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४८ द्वादशारनयचक्रे मूर्त्तितोच्यते । तासु तस्यैव निमित्तत्वात्, प्रवृत्तिफल प्रकर्षाभावप्रसङ्गात् कर्म एव कारणं नेश्वरादि । इतरथा ईश्वरादेः प्रधानादेर्वा प्रवृत्तयः फलं वा स्युस्तर्हि तस्यैकरूपत्वादुत्कर्षापकर्षों न स्यातां, दृष्टौ च तौ, न निर्बीजेश्वरकामचारेरणात्, अतोऽन्यद्विमर्दक्षम कारणमस्तीति। कर्मापेक्षत्वेऽपि न व्यर्थमीश्वरकारणत्वं तदभावे प्रवृत्त्यभावात्, दापेक्षरथकारकारणत्ववदिति चेन, इतरत्रापि तुल्यत्वात्, ईश्वरापेक्षत्वेऽपि न कर्मवैयर्थ्यं तत एव हेतोः, रथकारापेक्षरथदारुवदिति, प्रवर्त्तयितृत्वाच्चेश्वस्य दासस्य स्वामिवत् तच्च कर्मणः सिद्धम्, प्रवर्त्यत्वञ्चेश्वरस्य, तथाप्रवर्तकं कर्मेति पुरुष एवेश्वरः सर्व इति। ___ एवं प्रतिघातप्रसङ्गोऽपि सापेक्षप्रवृत्तित्वाद्रथकारवत्, यथा रथकार उपादानोपकरणानामसामर्थ्यवैकल्ययोः प्रतिघातस्तथाऽपचितकुशलमनुजिघृक्षतः तद्विपरीतञ्चोपजिघत्सत ईश्वरस्य यद्यप्रतिघातः स्यात् स्यात् स्वातन्त्र्यम्, न तु भवति पुरुषकर्म प्रत्ययेनेश्वरप्रवृत्तेः प्रतिघातदर्शनात्, अन्यथा शुभकर्माणं दुःखेनेतरश्च सुखेन योजयेत् तच्च नेष्टमित्यनीश्वरः सः। ___ यत्तूच्यते सर्गादौ धर्माधर्मविकलानां शरीरेन्द्रियविषयोत्पादने निरपेक्षोऽप्रतिहतस्वशक्तिवशादेव शरीरादीनुत्पाद्य बुद्धानां धर्माधर्ममर्यादामुपदिशति, “तपोदानयज्ञादि कुरुत, हिंसां मा कार्टेति" । मध्यकाले च तेषां प्राणिनां यथास्वं धर्माधर्ममर्यादामनुतिष्ठतामनुष्ठानानुरूपेण फलेनानुग्रहं करोति यदा तदा
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy