________________
चतुर्थो विधिनियमारः
१४७
त्यादि, कर्माभावे च सर्वप्राणिमुक्तेः तन्विन्द्रियविषयसम्बन्धाभावेन तन्वादिसृष्टिरीश्वरस्यानर्थिका, ततश्च भाव्यभावकभेदाभावादीश्वरकर्मप्रधानाण्वादिद्वैतकल्पनानिर्मूलता।
___ अथ तु सदपि नापेक्षते सः स्वतन्त्रत्वादिति मन्यते तत आ क्षीणोदितकर्माशयबन्धमोक्षाभ्यामकृताभ्यागमकृतप्रणाशौ स्याताम् धर्माधर्मनिरपेक्षत्वात्, स्वभावपुरुषादिवादिमतवत्। ___ अथैवं कर्मापेक्षः प्रवर्त्तत इति मन्यसे ततस्तान्येव कर्माणि कर्तृणि भवितृणि ईश्वराणि, तेषां तस्यापि तथाभावयितृत्वात्, न स तानि तथाभावयति तथाभाव्यमानत्वात्, यथा च पृथिव्युदकादीन् व्रीहिरेव तथाभावयति, पृथिव्यायपेक्षोऽपि तथापत्तेः, न पृथिव्यादयस्तथाऽनापत्तेः तेषामसत्त्वात्, असत्त्वञ्चानापन्नस्यासत्त्वात् खरविषाणवत् अस्वतन्त्रत्वाच्छब्दादिवत् भवति कर्ता स्वतन्त्रः सर्वः पुरुष प्रवर्तनवृत्तत्वात्, प्रवर्त्तयद्धि कारणं तद्भावमापयते शब्दादि, तथाभवनप्रवृत्तत्वात् प्रवर्त्तयितारमन्तरेणाभवनादवृत्तत्वात् तन्तुपटवत्।
ईश्वरस्यापि च तन्त्वंश्वादिवत् पूर्वपूर्वशक्ततारतम्येन प्रवर्तकः सर्वः ऎव पुरुषः, कर्मणिवृत्तेः सृष्टयतिशयप्रकर्षस्य, सनिहिततद्विध शक्तिः प्रतिविशिष्टबुद्धिप्रमाणीकृतक्रियः । स च स्वतन्त्रः, तत्प्रवृत्त्यापत्तेः, आ ईश्वरात् प्रवर्त्तयितृत्वात्।
शक्तिमत्प्रवृत्तीत्यादि यावत्सत्त्वादिवदिति पूर्ववत् सर्वव्यक्ति प्रवृत्त्यात्मकत्वादस्य सर्वमूर्तिता । एवमेव चास्य पृथिव्यायष्ट