________________
१४६
द्वादशारनयचक्रे
ईश्वरात्तु कर्मणः प्रवर्तनं किं सतः? असतो वा? तद्यद्यभूतस्य ततवाद्वैतम्, तस्यापि तदात्मकत्वात्, भूतस्य चेत् प्रागपि तत्कर्मास्ति कारणे कार्यस्य सत्त्वात्, तच्चेश्वरात्मैव, तनुकरणादि भाव्यवत् तथापि सुतरामद्वैतम्, तदात्मकत्वादेव पुरुषावस्थावत्, ईश्वरो भाव्यः तदात्मकार्थादि भवनवद्वा।
अथ यस्मै प्रवर्त्यते यथा तेन तत्तत्प्राण्यात्मकं तदित्यत्रोच्यते तस्मात्तर्हि तत्तथाभूतं प्रत्येकं प्राणिनः कारणात् तद्वशात्तथेश्वरप्रवृत्तेः कृतं त्वदिष्टेनेश्वराख्येन, अथ तत् कृतमपि पुरुषकारराजप्रसादवदीश्वरापेक्षं प्रवर्त्तत इत्यत्रोच्यते कर्तृतां प्रति स्वातन्त्र्यं सिद्धं तस्यैव, पुरुषकर्मजन्यप्रसादराजवदेव ईश्वरस्याप्यन्यतरपुरुषकृतकर्म प्रत्ययप्रसादोत्पादनात् कर्मस्वातन्त्र्यं प्रवृत्तौ फले वा।
द्रव्यादिपञ्चकापेक्षं हि कर्म प्रवृत्तौ फलदाने वा स्वतन्त्रम्, सेवादिक्रियाफलप्रत्यक्षवत्।
त्वदभिमतेश्वरस्तु यदि स्वतन्त्रः प्रधानादि वर्त्तयति ततः प्रतिपुरुषनियामककर्मानपेक्षायां प्राणिगणस्य स्थानविग्रहेन्द्रियोपभोगलक्षणाविशेषः, तद्विशेषहेतोरीश्वरस्य समानत्वात्, स तु विशेषो द्रव्यक्षेत्रकालभावभवापेक्षकर्मनियतेः स्यात्, तस्मात् कर्मापेक्षं ईश्वरत्वं सर्वप्राणिनाम्।
अनपेक्षा च कर्मणः किं सतोऽसतो वा? यद्यसत एव क्रियाविलोपः, इष्यन्ते च ताः यस्मादुक्तञ्च वः शास्त्रे 'योगं साधयिष्यनिष्यादि यावन्निद्रातन्द्राप्रमादालस्यरहितश्च स्यादि