________________
प्रथम: विधिभङ्गारः
परविषयतायामप्यसमानावस्थानादसामान्यम्,
लौकिकै
र्द्रव्यादीनामनवधृतैकतरकारणत्वात् ।
द्रव्यं तावत् सर्वतन्त्रसिद्धान्ते 'द्रव्यश्च भव्ये" इत्युक्तत्वात् युगपदयुगपद्भेदभाविमृद्भवनपरमार्थरूपादिशिवकादिवृत्ति द्रव्यमपि
भवनलक्षणं व्यापि ।
क्षेत्रमपि 'क्षि निवासगत्यो रिति सर्वगतिनिवासवृत्तिस्वतत्त्वमेकैकभावार्थ सङ्घातसमवस्थानात्मव्यापि विपरिणामस्य भावविस्पन्दितस्य ।
कालोऽपि परिणामवती क्रियैव वर्त्तनालक्षणो वा द्रव्यात्मा । स च युगपदयुगपत्कालस्वतत्त्वभूतपदार्थनिरूपितवृत्तिः, अनेकप्रभेदोपवर्ण्यास्तिकाया यत्र यत्र युगपद्वर्त्तन्ते स तत्र युगपद्वृत्तिः कालः, यत्र चादानधारणपाचननिसर्जननिर्वृत्तिवृत्तिष्वयुगपद्वृत्तिः स
कालः ।
द्रव्याद्यपि तु युगपदयुगपद्वृत्तिभावा एवेत्युक्तवदेव, तथाभवनात्तेषाम्, अन्यथा वन्ध्यादिपुत्रवदभावत्वापत्तेः, नेष्यते च तेषामभावत्वं भावत्वमेवैषाम् भावश्च भवनसम्बन्धी घटादिवत् । भावोऽपि सर्ववस्तुतत्त्वव्यापी ।
अत एतानि घटादिवस्त्वात्मसामान्यपक्षग्राहिणाऽपि त्वयाऽवश्यापेक्ष्याणि प्रत्यक्षादेव तथात्मत्वात्, दृश्यते एव हि
१. पाणिनि ५. ३.१०४ २. धातुपाठः १४०७