________________
द्वादशारनयचक्रे
द्रव्याद्येकरूपभवनसामान्यता, उक्तविधिना, किमु परविषयमुख्यसामान्यवादिना ।
द्रव्यादीनां परस्परभिन्नानां समानभवनान्मुख्यं सामान्यं लौकिकं, न तु सादृश्यानुप्रवृत्ति व्यावृत्त्यादि मुख्यम्, सामान्यलक्षणस्यादृष्टत्वात्, प्रत्यक्षत एव तथा तथा परविषयस्य समानस्य भवनात् सर्वतन्त्रसिद्धान्तेन निरुक्तत्वाच्च परेण समानेन भूयते समानभावः सामान्यं यद्भवन्ति सर्वभावाः स तेषां भाव इति ।
तथा च ते सर्वस्यास्य जगतो द्रव्यदेशकालभावापेक्षया तेन तेन प्रकारेण विशेषणैकता, द्रव्यं क्षेत्रेण कालेन भावेन विशेष्यते द्रव्येण क्षेत्रमितरौ च, एवं तैस्तदभूत् परस्परतश्च ते । यथाङ्गुलिर्वक्र प्रगुणताद्ययुगपद्भाविभावैरूपादियुगपद्भाविभावैर्देशेन द्रव्यान्तरैश्च विशेष्यते तथैकमपि वस्तु न केनचिन्नाभिसम्बद्ध्यते तथा तथा विशेष्यते च तद्भेदत्वसम्बन्धत्वाभ्याम् ।
तत्रान्यस्य कस्यचिदपोह्यस्य सदृशस्य तत्तत्त्वस्य वा समानस्याभावात् सामान्यानुपपत्तिः ।
स्यान्मतं परस्परविशिष्टैकत्वादेव तत्समुदायः परविषयसामान्यमिति तदयुक्तम्, उदितदोषानुबद्धैकसर्वत्वात् स्वविषयसामान्यापत्तेर्वा ।
तथा सङ्घातसमवस्थानभेदाद्वा घटपटवदत्यन्तभेद एव सर्वार्थानाम्, तथाहि किं परमाण्वादीनां घटो भवति ? घटस्य वा कपालानि? इति कः सम्बन्धः ।