SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ तृतीयो विध्युभयारः चेन्न, चेतनाधिष्ठितप्रवृत्तिमत्त्वसाध्यधर्मत्वात् ।। देवदत्तादेस्तर्हि चेतनेश्वराधिष्ठानं न प्राप्नोति, उच्यते च त्वया चेतनानामपीश्वराधिष्ठानम्, यथा पुरुषवादनिरसनाय - 'अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा वभ्रमेव वा ॥" इति चेन्न, प्राग्विशिष्टबुद्धिचेतनप्रतिज्ञानात्, विशिष्टबुद्धित्वमपि चास्यार्थानामर्थक्रियायोग्यत्वेन सन्निवेशकत्वात्, स्थपतिवत्। तन्वादीनि स्वभावेनैव प्रवृत्तानि न तु केनचिद्विशिष्टबुद्धिना, नीलोत्पलनालकण्टकमयूरचन्द्रिकादिवदिति चेन्न, क्षीरदधिमेघादिबुदुक्तोत्तरत्वात्। लघुप्रकाशप्रवृत्तिगुरुवरणनियमादयः परस्परप्रत्यनीकाः विशिष्टबुद्धिपूर्वकाः संहत्यैकार्थकारित्वात् पाचकाधिष्ठितानलोदकौदनसाधनवदिति। ___ अन्योऽन्याभिभवमिथुनवृत्तित्वपरिणामादिति चेन्न परिणाम स्यापि कार्यत्वात्, धर्मान्तरैक्यादिपरिणामो हि धर्मान्तरनिषेधो धर्मान्तराविर्भवनश्च, तद्वयं कार्यम्, पूर्ववत् प्रतिज्ञार्थाव्यतिरेकात्, विशिष्टबुद्धिमद्विहितम् ।अन्वाह ‘एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति। तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥२ १. महाभारते वनपर्वणि अ. ३. श्लो. २८ २. श्वेताश्वतरोपनिषद् ६-१२
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy