________________
१४४
द्वादशारनयचक्रे
अयं विधेरुभयभाक्, विधिर्व्याख्यातः पूर्वमनपकादप्रवृत्तिः तस्योत्सर्गाद्विधानात्मा विधिविधीयते सर्वसर्वात्मकत्वात्, नियमः सनिधिप्रयोज्यसतोप्रवृत्तेरसत्त्वम्, तयोरसत्सत्त्वात्, स्वतन्त्रस्य कर्तुईस्यैव भवनात् तस्मानियम्यते च।
सादृश्यं सामान्यञ्च शब्दार्थः, ननु सामान्यमविकल्पात्मपुरुषनियत्यादि, सर्वसर्वात्मकत्वादिति पूर्ववादप्रसङ्ग इति चेन सर्वसर्वात्मकत्वेऽपि च सृष्टयर्थवत्त्वात्, अभिहितन्यायेन सत्त्वादिशब्दादितन्वादिविकल्पप्रत्ययस्य सत्यार्थत्वात् अद्वैतप्रत्ययस्यासत्यार्थत्वात्।
वाक्यमपि च पृथक् सर्वं पदम्, यथा “देवदत्त ! गामभ्याज शुक्ला"मित्यत्रैकैकं पदं वाक्यम्, तस्मादेव, देवदत्तोऽपि हि गवात्मकोऽभ्याजात्मकश्च तथाप्रवर्त्तनात्तत्तदापत्तेः, तान्यपि तथापत्तेरिति।
एतस्य विध्युभयनयस्य द्रव्यार्थभेदोऽर्थः, पूर्वविरुद्धत्वानयानाम्, सङ्ग्रहदेशत्वाद्रव्यार्थः, द्रव्यमपि गुणसन्द्रावः, विध्युभयनयत्वात् सन्निहिततद्विधशक्तीश्वरापृथक्त्वादण्वादीनां तदेकैकसर्वात्मकत्वाच तेनापि तद्वशित्वात्।
किं स्वमनीषिकया तदुच्यते? न, उपनिबन्धनमस्य 'दुविहा पण्णवणा पण्णत्ता जीवपण्णवणा अजीवपण्णवणा चे" ति, अथवा 'किमिदं लोएत्ति पवुच्चई? गोयमा! जीवा चेव अजीवा चेव, एवं रयणप्पभा जाव ईसीपमारा समयावलियादि । इति विध्युभयारस्तृतीयो नयचक्रस्य ।
२. स्थानाङ्गसूत्रम् २.३४