________________
१४२
द्वादशारनयचक्रे
भवत्यन्तसन्निविष्टस्वातन्त्र्यात् तस्यैवेश्वरस्य प्रयोजकत्वादुच्यते भवतीच भवतीति।
सत्त्वतमःप्रकाशनियमप्रवृत्ती स्त एवेत्युक्तम्, इतरयोः ख्यापयतीति वचनात्, रजस्तु प्रवृत्तिलक्षणमेव, विशेषतः सत्यपि प्रवृत्तिसामान्ये करोति प्रवर्त्तयतीति वचनात् प्रवृत्त्या रजोभवनवद्वा।
दृष्टान्तवाहुल्यप्रदर्शनं प्रतिसिद्धान्तपरिदृष्टादृष्टादेः प्रवर्त्तयितृत्व ख्यापनार्थमिति स एव भवति सर्वव्यक्तिप्रवृत्त्यात्मकत्वात् तासामेव चास्याष्टमूर्त्तितोच्यते स्वशक्त्या व्यासरूपत्वात् तासु स एव भवति साऽसा च।
इतरथा यद्यदृष्टादेः प्रधानादेर्वा प्रवृत्तयः फलानि वा स्युः तर्हि तयोः स्वानुरूपकार्यकारणानुबन्धसामर्थ्याभ्युपगमादुत्कर्षापकर्षाभावप्रसङ्गः परस्परानुरूपशालिबीजामुरादिहेतुकार्यभावप्रबन्धवत्, दृष्टौ च तौ, ततो नान्यदस्ति कारणमीश्वरकामचारेरणादृते।
तनुकरणभुवनसाधनायादृष्टप्रधानकालादिप्रेरितानि परमाणु सत्त्वभूतादीनि विशिष्टचेतनाधिष्ठितान्येव प्रवर्तन्ते, सम्भूयैकार्थकारित्वात्, तक्षाधिष्ठितरथदारुगणवत् तथाऽचेतनत्वात्, अथवा स्थित्वा प्रवृत्तेस्तुर्यादिवत्। ..
चेतनानधिष्ठितक्षीरदधिमेघादिवदनेकान्त... इति चेन्न, अदृष्टकर्तृकविषयप्रतिज्ञार्थाव्यतिरेकात्, शब्दानित्यत्वसाधने प्रतिज्ञानुनीतजलधिध्वन्यनित्यत्ववत्।
स्थित्वाप्रवृत्तिचेतनानधिष्ठितेश्वरवदनेकान्तः, ईश्वरस्य वा चेतनाधिष्ठितता स्थित्वप्रवृत्तेरदृष्टाणुप्रधानादिवदतोऽनवस्था स्यादिति