________________
१४१
तृतीयो विध्युभयारः प्रवर्त्तयद्धि कारणं तद्भावमापद्यते सत्त्वादि, तथा भवनप्रवृत्तत्वात् तन्तुपटवत्।
नन्वेते प्रधानशब्दादिपटादिदृष्टान्ता अद्वैतवादं समर्थयन्तीति, उच्यते प्रवर्त्तयितृत्वमात्रसाधर्म्यात्तदभ्युपगम्यते, अन्यथा विध्युभयै कान्तोत्थानाभावात्, भाव्यभावकभेदप्रसिद्धेश्व, अणुधर्मादयोऽपि भाव्यमाना एव। ___धर्माधर्माण्वादीनामपि च तन्त्वंश्वादिवत् प्रवर्तकः पूर्व पूर्वशक्ततारतम्येनेश्वरः सनिहिततद्विधशक्तिः प्रतिविशिष्टबुद्धिः स्वतन्त्रः तस्याभिप्रायेणैव प्रवृत्तिमापद्यन्ते धर्माधर्माण्वादयः, सोऽपि चाभिप्रायप्रवृत्त्यापत्तेर्न सन्निधिमात्रवृत्तिरतः प्रवर्त्तयिता, प्रवृत्तिनिवृत्तिविनियोगेषु स्वातन्त्र्यात्, विष्णुसत्त्वादीनामधिकृतपुरुषाणामिव प्रवर्तनम्, तस्यैव प्रवर्त्तयितृत्वात्।।
अधिकृतपक्तृवत् सम्भवनधारणज्वलनविक्लेदनव्यापारेषु स्थालीकाष्ठतन्दुलादीनां प्रवृत्तिनिवृत्तिविनियोगेषु स्वातन्त्र्यात् सूपकारस्तत्तदात्मा प्रवर्त्तयितृप्रयोजनमात्रत्वात् क्रियायाः अथवा कर्तृ -कर्मकरणाधिकरणसम्प्रदानानि प्रतिकारकं पचादीनां क्रिया भेदायथास्वशक्तिस्वातन्त्र्यात् कर्तृणि, यथाधिकरणं स्थाली सम्भवन धारणे कुर्वती पचतीत्युच्यते तथापि उपक्रमप्रभृत्यपवर्गपर्य-वसानासु क्रियासु देवदत्तस्यैव स्वातन्त्र्यादुच्यते देवदत्त एव पचति तेन पच्यत इति।
साक्षाद्वा भवितृवत्, यथा च सम्भवनधारणरोहणादिसमर्थ पृथिव्युदकादिकारितव्रीहिभवनप्रत्यक्षतायामपि ब्रीहिर्जायते,