________________
१४०
द्वादशारनयचक्रे तदज्ञानत्वात् ज्ञानप्राप्यपुरुषार्थाभावोऽपीति किमवशिष्यते वार्षगणे तन्त्रे सुभाषिताभिमतमतस्त्याज्योऽयमनुपपन्नपरोक्षार्थवादः । ****
तस्मात् सर्वसर्वात्मकत्वपरिग्रह एव न्याय्यो न पुनः सर्वासर्वात्मकत्वपरिग्रहः, अन्यथा भवनद्वैतपरिग्रहाद्विध्युभयनयैकान्तोपपत्तेः, तत्र भवति भावद्वैतं भवतो भावस्य, न तु सन्निध्या
पत्तिभवनद्वैतम्।
__तत्र तावद्यः सन्निधिर्नहि स सन्निधिमात्रवृत्तिरस्ति, अनापन त्वात्, अनाविर्भूतत्वात् अनाविर्भवनमप्रवर्त्तनमप्रवर्तनश्चानियमः, अथवाऽऽपत्तिर्विपरिणामः, आविर्भावो व्यक्तिः प्रवृत्तिनियमस्वरूपत्वमतो विपर्ययेभ्यो हेतुभ्योऽनापन्नत्वादिस्वरूपेभ्यो नास्ति वन्ध्यापुत्रवत् सनिधिः।
ननूक्तम् अस्तिभवत्यादिष्वस्तिवर्त्तती सनिधिवाचिनौ भवतिविद्यती सामान्यभवनवाचिनौ पद्यतिरापत्तिभवनवाचीति, सत्यमुक्तम् । सर्वेऽप्यमी सत्तार्थमेवाविशेषेण ब्रुवते, पद्यतिवर्तत्यर्थ प्रवृत्तत्वात्सत्ताया इत्युक्तम्, न हि द्रव्यादिसतेंदोपादानवत् पद्यति वर्त्तत्युभयोपादानम् किन्तु अस्त्यादितुल्यार्थत्वेन, सत्तार्थ इत्यविशेषेण वचनात्, एवं तावत्सनिधिभवनं नास्त्येव निरूपणानुपपत्तेः।
यदपि चापत्तिभवननिरूपणं प्रधानमेव भवति महदादि विकारापत्त्या, तेन किल भूयते इति तदपि न, तस्यापि भाव्यमानत्वाद्भावयितारमन्तरेण भाव्यत्वानुपपत्तेः, अनापन्नत्वात् ।
अस्वतन्त्रत्वात्, शब्दादिवत्, तस्मात्ततोऽन्यो भवति मुख्यः, कोऽसौ? यः कर्ता, कः कर्ता? यः स्वतन्त्र प्रवर्तनवृत्तत्वात्,