SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ तृतीयो बिध्युभयारः १३९ गाच्च । एवं मोहादपि द्वाभ्यामप्यनन्यत् सुखं तेभ्य एव हेतुभ्य इति एत एव सर्वे हेतवः स्वपरधर्माः । प्रसादादयश्वेतरेतरसंयोगेन चाभ्युह्याः, अन्येऽप्यचेतनत्वादिसमासदण्डकमध्ये यावच्छरीराद्यापत्तित्वाप्रकृतिधर्मैस्सामान्यभूतैर्विशेषितैश्च यावत्किञ्चिदिहास्ति सर्वं तदनन्यत्वे त्रिलक्षणतां प्रतिपद्यते धर्मजातमित्यतः कुतः सङ्कलना ? भावितत्रैगुण्यैकात्मकलोष्टादिवस्तुन्यायव्यापित्वात् । नन्वेवं स्ववचनविरोधादिदोषा अनन्यत्वप्रतिज्ञाया इत्ययुक्तम्, तवात्मन एवोपालम्भात् । प्रधानमेकं सुखदुःखमोहात्मकत्वादभिन्नगुणात्मकं साम्येन चावस्थितमिति तथा परस्परमुपकुर्वन्ति सत्त्वादयः शब्दादिभावेन च व्यवतिष्ठन्ते प्रत्येकं सुखाद्यात्मनेति सुखादित्र्यात्मकत्वं घटादावेकस्मिन्नेव चेति त्वयैवाभ्युपगतत्वात् कस्य स्ववचनविरोधादिदोषाः ? इति स्वस्थेन चेतसा चिन्त्यताम् । हेतुविरुद्धतोक्तावप्येवमेवेति स्फुटमेव सुखं सदा व्यक्त - शब्दस्पर्शरूपरसगन्धं चेत्यभ्युपगम्यताम्, किमन्यापादनेन परदोषाभिधानेन वा तत्त्ववादिनैव भवितव्यमृजुना, तेभ्य एव लघ्वादिभ्यो हेतुभ्यो वियदादिवदिति, स्वमतेन तु व्यक्तशब्दस्पर्शरूपरसगन्धवत्प्रतिज्ञायां वियद्वर्जान्युदाहरणानि । सत्त्वादित्रयविषयसमन्वयपरिमाणोपकारशक्तिप्रवृत्तिवैश्वरूप्यगत्याख्यानां प्रकृतिसाधकानां वीतानां व्यवहारसम्प्रसिद्धेः प्रत्ययसर्गास्तित्वैकत्वार्थवत्त्वपारार्थ्यान्यत्वाकर्तृत्वपुरुषबहुत्वयोगवियोगस्थितिविषयस्य शास्त्रस्यैतेषामेव पञ्चानां वीतानां हेतुत्वाव - ' धारणार्थानाञ्चावीतानामतथार्थत्वात्तद्विषयः प्रत्ययोऽप्यज्ञानमेव, ·
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy