________________
१३८
द्वादशारनयचक्रे ___ अथ मा भूदेष दोष इत्यनात्मत्वविशेषणं त्वद्वदाब्रवीमीत्युच्यते तथा सति यथा किं सुखादन्यत् आत्मानं मुक्त्वा इदं तदिति निदर्शयितुं शक्यते? इति समन्वयाभावः सुखादेरपि सुखादन्यस्य विपक्षत्वाद्विपक्षाव्यावृत्तिरपि।
अथ तु विभक्तस्वतत्त्वं सुखं सुखादन्यन्न भवति प्रसादाद्यनात्मकमपि न भवतीति, उच्यते तथा सति तेन प्रकारेण नियमवत् सुखमेवानन्यत् प्रसादाद्यात्मकं भवति चेति तथा तस्य वस्तुनः प्रवर्तनात् तथाव्यक्तेच नियमप्रवृत्तिप्रकाशात्मकं सुखमेवेति त्वदभ्युपगमेनैवैक्यं मोहादीनामापन्नमस्मिन् साधने, एवं शेषसाधनेष्वपीति को वादार्थ उभयोरपि।
एवं तावदवरणायात्मकत्वादिहेतवः प्रथमोक्तानन्यत्वपक्षस्यैव साधका अनात्मत्वविशेषणा अपि, तत्रैव त्ववरणाद्यात्मकत्वादिवद्विदोषा लघ्वादिहेतवोऽपि।
सुखादावपि च परिहारपक्षेऽपि कृतेऽपि च परधर्मेणापि विशिष्टेन प्रतिपादनविधिनाऽनन्यत्वहेतवः सुखं दुःखादनन्यत् चला प्रकाशकत्वात्, अविभक्ताशेषगुणात्मकलोष्टवदिति। ___ एवञ्च स्थिते सुखं दुःखादनन्यल्लघुत्वात्, एवमप्रवृत्तिशीलत्वात् प्रकाशकत्वादेतानि च चत्वारि साधनानि, अत्र द्विकसंयोगेनापि त्रीणि, एवं मोहादपि, परधर्मेण सुखस्य दुःखधर्माभ्यां प्रत्येकं द्वे समुदायेनैकमिति त्रीणि, प्रवृत्तिशीलत्वादित्यपि तत्संयोगेनेतराभ्यामपि सप्तसाधनानि, एवं मोहादपि, एवं सुखं दुःखादनन्यत् गुरुत्वादप्रकाशकत्वात्तत्संयो