________________
तृतीयो विध्युभयारः
१३७ ____मा मंस्थाः त्वदीया हेतवो बलीयांसः, तदबलत्वश्चास्मत्पक्षसाधनाय इतोऽपि विपरिवर्तयितुं शक्यत्वात्, यथा सुखादन्यदुःखं प्रसादायनात्मकत्वात् पुरुषवत्, मोहश्च दुःखादन्यः तत एव तद्वदिति, अत्रोच्यते किं तन्मात्रादेव विपरिवर्तनम्? उत त्रैलक्षण्यात्? त्रैलक्षण्यादिति चेन, आदिलक्षणमेव हि नास्तीह यदाधारेण शेषद्वयम्, न हनात्मकत्वं नाम किश्चिदस्ति, आत्मा न भवति, आत्मैव नास्तीत्यनात्मकमिति द्विधाऽभ्यसिद्धं दुःखस्यानात्मकत्वं धर्म्यसिद्धयापत्तेः, न दुःखं नान्यो मोहः पुरुषो वा प्रसादाद्यनात्मकत्वात् खपुष्पवत् स्यादिति।
नन्वन्यपदार्थविषयत्वाद्हुव्रीहेरनात्मकश्रुतेरस्ति प्रसादाद्यनात्मा वा चित्रगुदेवदत्तवत् कोऽप्यन्यः, सोऽत्र च सद्धर्मवान् धर्मी पक्षो भवितुमर्हतीति।
अत्रोच्यते, बहुव्रीहेरन्यपदार्थविषयत्वानैकान्त्यात्, एवमपि स्थूलशिरा राहुरिति तद्गुणसंविज्ञानपक्षाश्रयेण शिरोऽव्यतिरिक्तस्य राहोरसदाख्यया व्यपदेशिवद्भावेन यथा व्यवहारो दृष्टस्तथेदमपि स्यात्, तस्य व्यपदेशिवद्भावव्यवहारानभ्युपगमे धर्मधर्मिस्वरूपविरोधात्।
आत्मनोऽनन्यदेव दुःखम्, प्रसादायनात्मकत्वात्, आत्मस्वतत्त्ववत्, पुरुषत्वापत्तिच, अन्यथा सुखान्यत्वप्रसादायनात्मकत्वानुपपत्तेः।
धर्मस्वरूपविरोधोऽपि चैवमेव, ततश्च प्रकृतिपुरुषयोरप्येकतैव, एवं सुखमोहयोरपि।