SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३६ द्वादशारनयचक्रे गुणाः तत्सन्दुतिलक्षणं द्रव्यमेव शब्दादिभावेन व्यवस्थानात् शब्दादिस्वात्मवदिति । स्वेनैव रूपेण अनापन्नतद्रूपसत्त्वस्यासत्त्वस्यासन्द्रुतस्य स्थितस्य प्रागारम्भादारभमाणस्य शब्दादिभावापत्तिकालः व्यवस्थाशब्देनोच्यते इति चेन्न, पूर्वतुल्यत्वात्, नान्तरेण प्रवृत्त्याद्येकत्वगतिं व्यवस्थापत्तेः । अतो यथाहेत्वनैकान्तिकस्त्वां प्रति यथा सुखं मोहाद्गुरोरनन्यत् लघुत्वात् लोहपिण्डवदर्कतूलवत् शब्दभावव्यवतिष्ठमानसुखादिवद्वा, दुःखात् प्रवृत्तिशीलादनन्यत्, अप्रवृत्तिशीलत्वात् वायुवदाकाशवदित्यादि, स्वप्रयुक्तलक्षणभेदवैलक्षण्यविशेषणपक्षविरचनया लघ्वादय एवं विपर्यसनीयाः । अथवा मुक्त्वापि तां सत्त्वादिभेदलक्षणाभिमतेभ्य एव त्वदुक्तेभ्यो लघ्वादिहेतुभ्योऽभेदसिद्धिः शक्याऽऽपादयितुं स्फुटेनैव न्यायाध्वना । सुखं मोहादनन्यत् अपुरुषत्वे चलत्वात् मोहस्वात्मवत्, दुःखादनन्यत्, प्रवृत्तिशीलत्वात् दुःखस्वात्मवत्, तथा दुःखादि । नन्वेवं विरुद्धाव्यभिचारिवदुभयानिश्वयः, न उक्तत्वात् । भावितत्वाच्च गुणेषु सदा सन्द्रावस्य, विरुद्धाव्यभिचारिणि च न परस्परनिवारितव्याप्तित्वमात्रात् संशय एव किं तर्हि ? प्रत्यक्षागमबलीयस्त्वभूतादेव निश्चयोऽन्वेष्यत इति युक्तम्, बलीयस्त्वश्चास्मद्धेतूनामाद्यहेतुभावनातः ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy