________________
प्रथमः विधिभङ्गारः
तेषां विधिनियमभङ्गानां वृत्तिर्जेनसत्यत्वसाधनवृत्ता तु वृत्तिर्द्वादशविकल्पविशेषणा। अन्यथा प्रत्येकं स्वरूपानवधारणादवृत्तित्वमेव वक्ष्यमाणवत्।
तत्र विधिवृत्तिस्तावत् यथालोकग्राहमेव वस्तु, परीक्षकाभिमानिनां तु तीर्थ्यानां स्वपरविषयतायां सामान्यविशेषयोरनुपपत्तेर्लोकाभिप्रायोऽविवेकयत्नः शास्त्रेष्विति।
सामान्यविशेषौ हि स्वविषयौ परविषयौ वा स्याताम्? स्वस्यात्मनि वर्तेत? परस्य वाऽऽत्मनि? तत्रायं तावदेकस्य सर्वत्वात्सर्वस्य चैकत्वात् स्वविषयं घटस्याऽऽत्मनि वर्तते यद्येवं सामान्यविरोधः।
यदि सामान्यं तत आत्मा न भवति, अनेकार्थविषयत्वात्सामान्यस्य । यद्यात्मा ततोऽपि न सामान्यम्, एकत्वादात्मनः, सेनाहस्तिनोरिव।
अथोच्येत स्यादेव विरोधो यद्यात्मनः सामान्यमिति भेदेन स्वत्वमभ्युपगम्येत । इहत्वात्मैव सामान्यम्, किं तत्? घटादेः सत्त्वादिरात्मा । स हि तत्समुदायकार्यत्वात्सामान्यम्, यथोक्तम्"आध्यात्मिकाः कार्यात्मका भेदाः शब्दस्पर्शरसरूपगन्धाः पञ्च त्रयाणां सुखदुःखमोहानां सन्निवेशमात्रम्, कस्मात्? पञ्चानां पञ्चानामेककार्यभावात् । सुखानां शब्दस्पर्शरसरूपगन्धानां प्रसादलाघवाभिष्वङ्गोद्धर्षप्रीतयः कार्यम्, दुःखानां शोषतापभे