________________
द्वादशारनयचक्रे
विनिश्चेयपदार्थानां विपर्ययप्रणयनेन विसंवादीनि, विपर्ययप्रणयनश्च रूपादय एव घटो घट एव रूपादयो रूपादयश्च घटश्च, न रूपादयो न घट इति वा, अश्रावणशब्दवादिवचनवदाशङ्कामपि सत्यत्वेन जनयितुमलम्।
___ अपि च लौकिकव्यवहारोऽपि नित्यानित्यावक्तव्याद्यनेकान्तवस्तुविषय एव, तदपह्नवप्रवृत्तशेषशासनेषु साध्विदमिति विचारो व्यामोहोपनिबन्धनमिति शेषशासनविसंवदनजनितास्थं प्रमाणद्वयसंसिद्धिसम्पादितप्रत्ययं तत एव च प्रतिष्ठापितात्यन्तपरोक्षार्थश्रद्धानं शासनमूर्जितं जयतीति प्रत्याम्नायते॥
अस्य चार्थस्य पूर्वमहोदधिसमुत्थितनयप्राभृततरङ्गागमप्रभ्रष्टश्लिष्टार्थकणिकामात्रस्य प्रतिपादकस्य नयचक्रस्य शास्त्रस्य सङ्किप्तार्थं गाथासूत्रम् -
विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्यम् ॥२॥
विधिः आचारः, स्थितिः, क्रमो, न्याय इत्यादि । नियमो विशेषो, व्याप्य इत्यादि। तयोर्भङ्गाः । १. विधिः, २. विधिविधिः, ३. विध्युभयम्, ४. विधिनियमः, ५. उभयं, ६. उभयविधिः, ७. उभयोभयम्, ८. उभयनियमः, ९. नियमः, १०. नियमविधिः, ११. नियमोभयम्, १२. नियमनियमः इति।