________________
तृतीयो बिध्युभयार:
एवन्त्वनभ्युपगमे इदं निरूप्यं यत्तद्भिन्नात्मकत्वं परिगृह्यप्रयुक्ते कार्यकारणवीतेऽभिहितं सत्त्वरजस्तमांसि त्रीणि शब्दाद्यात्मभिर्व्यवतिष्ठमानांनि परस्परार्थं कुर्वन्तीति एतत्कथं निरूप्यते ? वक्ष्यमाणेषु विचारविकल्पेषु यथा यथोच्यते तथा तथाऽनुपपत्तिरेवेति ।
अनेकात्मकत्वकारणकल्पनाऽसद्वाद
१२७
एव,
विकल्पानुपपन्नार्थत्वात्, तदुक्तसत्यत्वानुपपन्नार्थसर्वोक्तानृतत्वपक्षवत् ।
सम्भाव्य
यदुच्यते सत्त्वरजस्तमांसि त्रीणि शब्दाद्यत्मभिर्व्यवतिष्ठमानानि परस्परार्थं कुर्वन्तीति, सत्त्वं शब्दकार्यं प्रख्याय तदात्मना व्यवतिष्ठमानं रजस्तमसोः शब्दात्मभावाय प्रवृत्तिं प्रख्यापयतीति अत्र च किं प्रकाशात्मकेन सत्त्वेन शब्दात्मना व्यवस्थानेन प्रकाशात्मकयोरेव रजस्तमसोः शब्दात्मभावाय प्रवृत्तिर्व्यक्तिः प्रख्याप्यते ? उताप्रकाशात्मकयोः ?
-
प्रकाशात्मकयोरित्येष विकल्पो न घटत एव, सत्त्वरजस्तमसां जात्यन्तरत्वाभ्युपगमात् यद्यप्रकाशात्मके रजस्तमसी शब्दात्मभावाय प्रख्याप्येते सत्त्वं पुरुषमपि तर्हि शब्दात्मभावाय प्रख्यापयिष्यति शब्दत्वायैनं प्रवर्त्तयिष्यति, सत्त्वेन शब्दकार्यप्रख्यातिना शब्दात्मना व्यवतिष्ठमानेन पुरुषः शब्दात्मभावाय प्रवर्त्यतेऽभिव्यज्यते व्यवस्थाप्यते च, अप्रकाशात्मकत्वात्, यद्यदप्रकाशात्मकं तत्तत् सत्त्वेन शब्दकार्यप्रख्यातिना शब्दात्मना व्यवतिष्ठमानेन शब्दात्मभावाय प्रवर्त्यं व्यङ्गयं व्यवस्थाप्यश्च दृष्टं
10