________________
१२८
द्वादशारनयचक्रे
रजस्तमसी इव, अप्रकाशात्मकेन तेनापि शब्दभावाय प्रवर्तितव्यं प्रकाशितव्यं व्यवस्थातव्यम्, प्रकाशकारकत्वोपपत्तेः, रजस्तमोभ्यां इव, रजस्तमश्च यथा प्रवर्त्तते प्रकाशते व्यवतिष्ठते तथा स प्रवर्तते प्रकाशते व्यवतिष्ठते।
अथोच्यतेऽप्रकाशत्वाकान्तः शक्यते कर्तुम्, शक्यते हीत्थं वक्तुमपि, पुरुषः सत्त्वान्न प्रकाशते, अप्रकाशकत्वे सन्निहितप्रकाशकारकत्वात् प्रदीपेनेव वियत्, रजस्तमसी च प्रकाशेते, अप्रकाशकत्वात्, प्रदीपेनेव पृथिवी, यथा च वियत्पृथिव्योरप्रकाशकत्वसामान्ये सत्येव कारकसान्निध्येऽपि प्रकाशाप्रकाशौ दृष्टौ, एवं पुरुषस्याप्रकाशात्मकत्वेऽप्यप्रकाशतैव रजस्तमसोः प्रकाशतैवेति।
एवं तावद्विकल्पसमजातित्वादनुत्तरमेव, प्रयत्नानन्तरीयकत्वे सत्येव मूर्तामर्तत्वादिविशेषवद्धटशब्दयोरनित्यो नित्यश्चेति विशेषः स्यादिति वचनवत् । एतदपि च नैवं वियतोऽप्रकाशकत्वम्, त्वन्मतेनैव शब्दात्मना प्रकाशमानत्वात्, रूपविषयाप्रकाशनमपि च पृथिव्यादिषु न घटते, यस्माद्रूपादिपृथग्भूतपृथग्विपरिणतिषु पृथिव्यादिषु तेजोरहितेषु विद्यमानः प्रकाशकत्वप्रकाशः स्वगतोऽतो विपरिणतः, किन्तु प्रकाश्यत्वप्रकाशोऽस्त्याविर्भूतत्वादतस्तेषां प्रकाशतैव कचित्, अत्यन्तमतिरोभूतत्वात् झादिषु प्रकाश्यप्रकाशकत्ववत् ज्ञानस्वभाव एव हि मनुष्यः प्रकाशात्मा प्रकाश्यो दृष्टः तस्मानाप्रकाशकत्वे प्रकाशनम्।