________________
१२६
द्वादशारनयचक्रे
स्तथास्वरूपापादनादृते किमन्यत् करोति? एवञ्च नौवत्तम एवाऽऽपद्यते सत्त्वमेव नियामकम्, तथाप्रकाशेन नियम्यत्वात्।
तथाप्रकाशानतिरिक्ततत्त्वरूपत्वाद्वा नियमस्य कुतोऽनौलम्बनपाषाणभेदसाधर्म्यम्? भेदे सति लम्बनपाषाणो नौविलक्षणो नावं प्रवर्त्तमानां निरुणद्धीति युज्यते, न तद्रूपत्वमतद्वृत्तित्वादिति चेन तमसः स्वनियमवत्तदात्मन एव नियतत्वात्, अन्यथा सत्त्वं न स्यात् प्रकाशो वेत्युक्तत्वात्, तथाऽन्यथा तु नियत्यभावात् प्रकाश एव नियमः।
एवञ्चैकैकविनिद्रावस्थापुरुषत्ववदित्यादि यावद्भङ्गचक्रावर्त्तनं प्रवृत्तिस्थाने नियमतच, पुनश्च नियमस्वात्मैव वा त्रीण्यपीति पुरुषावस्थावद्भङ्गचक्रावर्त्तनं यावत्सुखादनन्यदुःखमितीयड्रम्, अत्र तु विशेषः सुखादनन्य एव मोहः, अनात्मत्वेऽशोषायात्मकत्वात् सुखस्वात्मवदित्यादिसाक्षेपपरिहारं पूर्ववत्।
न वापीदमेकत एव तत्त्वं सुखदुःखमोहानां सामान्यविशेषभावात्, किन्तूभयतः, अनन्यत्वात्, अभिन्नत्वात्, एकत्वात् पूर्ववत् ..... सन्निहितापत्तिभवनसत्तार्थत्वन्त्वयथार्थं स्यात्, आपत्तिभवनं सनिधिभवनाविनाभावे युज्यते, यदि तद्रूपादिबीजे न तु सन्निहितं ततोऽहुरस्यासत्त्वाद्यापत्तिः स्यात् .......।
एवञ्च तावत् सुखदुःखमोहानां प्रकाशप्रवृत्तिनियमात्मकानामनन्यत्वादेकात्मकैककारणपूर्वकत्वमिति संयगभ्यधाम् ।