________________
तृतीयो विध्युभयारः
१२५
___एवं हि कार्य कारणेऽस्तीति घटते यदि तत्तत्र नियतमनन्यथावृत्तिकार्यमिति, तत्र सन्निधिवर्त्ततेः सत्तार्थत्वात् सन्नियतो वर्त्तत इति
न, आधिक्येन यतत्वादधिको यमो नियमः, तमोऽनुग्रहाद्यः स चानन्यथावृत्तिरूपता, तस्मात्, सत्त्वं तमोऽनुगृहीतं तथाप्रकाशते न स्वत एवेत्येतच्चासत्, तमसोऽपि सत्त्ववत् पृथगपरिसमाप्तरूपत्वात्, तमोनियमनापेक्षप्रकाशात्मकसत्त्वषत्, तमसोऽपि हि स्वरूपव्यक्तिरसमाप्तरूपैव, तस्य तथाव्यक्तेः सत्त्वप्रकाशनप्रतिलभ्यत्वादिति तथाप्रकाशनं व्यक्तिः प्रकाशात्मकसत्त्वानुग्रहाद्भवति, अनियतश्च कथमन्यनियमने प्रवर्त्ततेत्यादिः यावन परिणामस्य तत्रैवोक्तत्वादिति।
प्रकाशात्मैव तु नियमः, इतरथा स प्रकाशो न सः, तथाऽनियतत्वात्तथाऽभूतत्वात् घटपुरुषवत्, य एव नियमः स एव प्रकाशः, तथानियतत्वात्तथाप्रवृत्तत्वात् घटघटस्वात्मवत्, नियम्यनियामकत्वानौलम्बनपाषाणवन्नेति चेन, तदात्मन एव तथानियतत्वात्, सन्निधिमात्रात् पूर्ववदनियमनात्।
य एवासौ सत्त्वस्यात्मा तथानियम्यव्यक्तिस्वरूपः प्रकाशः स एव नियामकः, तथानियमविधेः, इतरकर्तृककुम्भकारादिवत्, तमोनियमात्मरूपापादनात् ततस्त्वदभिमतनियामकत्वविपर्ययापत्तिः, तमसो नियम्यत्वात्, सत्त्वस्यैव नियामकत्वात् इतर तथात्मरूपापादनात्तमोवत्, तमोऽपि हि त्वन्मतेनेतरयो