SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२४ द्वादशारनयचक्रे ___ अथ सर्वतुल्यता कथं दोषः? स्वमतेन परमतेन वा, यदि स्वस्मिन्नेव मते ततस्तव प्रसिद्धिविरोधदोषासक्तिर्ममाभिमतैव, भावपक्षवत्। अपि च स्वमतेऽपि सर्वानन्यत्वं सुखायन्वयमात्रत्वात् सर्वस्य, मृदि घटः कट इव त्रिगुणोऽपि नास्तीति चेत्ततश्च सत्कार्यवादत्यागो वा तत्राभावात्, समुदयक्षणिकशून्यवादापत्तेश्च । रूपादीनाश्चानेन न्यायेनान्यत्वेऽपक्षिप्ते प्रत्युदाहरणाभाव एव। यथाच प्रकाशादभिन्ना प्रवृत्तिस्तथा नियमोऽप्यभिन्नः प्रकाशात्, प्रकाशस्वात्मत्वप्रतिलम्भ एव हि तनियमः, प्रकाशानन्यत्वात्, एतनियमलक्षणेन निरुद्धयतेऽन्यः प्रकाशान्नियम इति, तत्र दोषदर्शनात्। भिन्नात्मकतायां प्रकाशात्तनियमस्य सत्त्वं न स्यात् प्रकाशो वा, तथाऽनियतत्वात् गुणान्तररूपापत्तिरहितस्य सत्त्वस्य प्रकाशस्य चान्यथाप्रकाशनाभावात्, रजोवत्, प्रवृत्तिवत् मूलत एव सत्त्वमेवं प्रकाश इति न स्यादनियत्वाद्वन्ध्यापुत्रवत्, न च तत्प्रकाशात्मकं पुरुषवत् पूर्ववद्वाऽनग्निप्रकाशवद्वा। ____ ननु प्रकाशात्मकत्वादेव प्रदीपवत् सत्त्वस्य सर्वतो नियतानियतप्रकाशस्य पूर्वोत्तरव्यक्त्यभिमुखतायां मति नियामके कुड्यादावनेरिव तमसा नियम्यत्वं तच्चानन्यथाप्रवृत्ततेति दृष्टत्वाचान -पहवनीयो भेदो नियम्यनियामकयोरित्यत्रोच्यते, यद्यनियतोऽसाव -संस्तर्हि, अनियतत्वाद्वान्ध्येयवत्।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy