________________
तृतीयो विध्युभयारः
१२३ सुखादनन्यत्वेन दुःखे साध्येऽनात्मत्वविशेषणेनात्मनि निरस्ते साधनान्तरनिरस्ते तमसोऽन्यत्वे न किञ्चित्सुखादन्यदस्ति तस्मादन्यः कश्चिद्विपक्ष एव नास्ति, मोहेऽन्यत्वमिति चेत्तन्निवर्तयिष्यते।
अवरणायात्मकत्वात् कुतोऽन्यत्वनिवृत्तिरिति चेन्न, अवरणाद्यात्मकत्वादिति विधिप्रधानपर्युदासात्मकत्वात्, अनपुंसकवचनादप्रतिषेधेऽनपुंसकसुटः सर्वनामस्थानत्ववत्।।
__ वैषम्याददृष्टान्तोऽयम्, सम्बन्धिनः सुटः सर्वनामस्थानसंज्ञाविधाने नपुंसकानपुंसकविषयत्वाविरोधात्, विरोधाद्वरणाद्यात्म -कत्वानुपपत्तिरित्येतदपि न, वैषम्यस्यात्रापि तुल्यत्वात्, तटस्तटं तटीति स्त्रीपुंनपुंसकवदेतत्स्यात् एकस्मिन्नेव लिङ्गत्रयदर्शनात्।
एवं तर्हि सुखदुःखयोरपि वरणाद्यात्मकत्वादवरणायात्मकत्वासिद्धिरेव, वरणाद्यात्मकत्वसिद्धौ वाऽनन्यत्वासिद्धिरिति चेन, अवरणायात्मकत्वेऽप्यनन्यत्वावरणाद्यात्मकत्वस्य, वरणसदनमोहात्मकत्ववत्।
वक्ष्यमाणवच्च वरणायात्मकत्वेऽप्यनन्यत्वादवरणायात्मकत्वस्य प्रापितत्वात्।
असाधनमिदं सर्वतुल्यत्वात् प्रसिद्धिविरुद्धसिद्धयतिप्रसङ्गात्, शक्यते हि वक्तुं कटः घटादनन्यः, तन्त्वनात्मकत्वात्, यथा घटस्वात्मा वैधर्येण पटवदिति।