________________
१२२
द्वादशारनयचक्रे
मितरयोस्तथास्वरूपापादनादृते किमन्यत् करोति? एवञ्च पल्लववद्रज एवापद्यते सत्त्वमेव च प्रवर्तकम् तथाप्रकाशेन प्रवर्त्यत्वात्।
तथाप्रकाशानतिरिक्ततत्त्वरूपत्वाद्वा प्रवृत्तेः कुतोऽपल्लवपवन भेदसाधर्म्यम्? यथेहापल्लवलक्षणः पवनो लोके भिन्न इति दृष्टोऽपवनलक्षणश्च पल्लवः । न तद्रूपत्वम्, अतद्वृत्तित्वादिति चेन्न रजःस्वप्रवृत्तिवत्तदात्मन एव प्रवृत्तत्वात्।
__ अन्यथा हि न प्रकाशेतेत्युक्तत्वात्, एवं तथैवान्यथा तु प्रवृत्त्य -भावात् प्रकाश एव प्रवृत्तिः, एवञ्चैकैकविनिद्रावस्थापुरुषत्ववत् प्रवृत्तिः प्रधानमिति तन्मात्रमेव तत्, प्रवृत्त्यापत्तिरूपनिरूप्यत्वात्, प्रवृत्तिस्वात्मवदित्यादि भङ्गचक्रावर्तनम्।
एवश्चैकैकपूर्वकवादापत्तेरेव किमनेकात्मकैककल्पनया? तथापि च "सातपारार्थ्यादि भिवेतनान्यत्वे स्थिताचैतन्यैकत्वपरिणामित्ववृत्तिं कारणं सुखमिति वा दुःखमिति वा मोह इति वा परमाणव इति वा कारणमित्येव वा उक्तवत्स्थापितात्म -स्वतत्त्वप्रवृत्तित्वादतः किमिति न गम्यते त्वया वक्ष्यमाणसाधनवदनन्ये सुखदुःखे इति।
किं पुनस्तत्साधनमिति चेत् सुखादनन्यदेव दुःखम् अनात्मत्वेऽवरणाद्यात्मकत्वात्, सुखस्वात्मवत्, अवधारणेन च वक्ष्यमाणसाधनान्तरापक्षिप्तान्यत्वो विपक्षाभावः सूच्यते । १. सामयकारिका १७