SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ तृतीयो विध्युभयारः ११७ ___युगपद्वा परस्परसम्बन्धिसत्ताको भोक्तृभोग्यौ, तत्सम्बन्धित्वात्, यथा सम्बन्धी भ्राता सम्बन्धिनेतरेण भ्रात्रा विना न भवति तथा भोक्तृभोग्याविति। यदि च तथा तथा वर्त्तनं भवनं रूपादौ पृथिव्यादौ गवादौ घटादौ च सकलजगद्वतिविवर्त्तरूपं. तदपि नैकैकस्माद्भवति, अपरिणामिनो वा, किन्त्वनेकैकस्मात् परिणामिन एव, आपत्तित्वात्, व्रीहिवत्। नाप्यद्वैते भवत्यापत्तिभवनमेकैकस्य कस्मैचिदर्थमकुर्वतः, किन्तु सङ्घातात्मकत्वात् संहत्यकारिणां हि पारायँ नानर्थक्यं न स्वार्थत्वं नान्योऽन्यार्थत्वश्च केवलम्, गृहघटपृथिव्यादिवत् स्त्रीशोभनार्थालङ्कारवत्, तथा आ चक्षुरादयोऽप्याध्यात्मिकाः। यत्पुनरिष्यते एकं कारणं पुरुषादीति तन वयमभ्युपेमः, त्वन्मतेनाप्येकञ्चेत् किश्चित् पारार्थ्यं कारणमिष्यते तदभ्युपगम्य भेदात्मकेन चानेन भवितव्यमिति प्रतिजानीमहे परार्थार्थेन च, कारणत्वात् तन्वादिवत्, शब्दाद्युपलब्ध्यर्थत्वात् किं हि कारणं रूपादि दृष्टमेकं स्वार्थश्चेति? तदित्थं द्वैते तु प्रकृतेरनेकात्मिकाया आत्मभिः सुखदुःखमोहैः स्वपरेषां प्रतिपत्तिचलनधरणकरणैः प्रागभिहिताऽऽचार्यपवनपाषाणवत् महदादिना परिणामानुक्रमेणारब्धाः शब्दादयोऽपि तदात्मका एव, तदात्मत्वाभिव्यक्तकार्यत्वात्, मृत्कार्यपिण्डशिवका दिमृत्त्ववत्, सुखाद्युपलब्धेः ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy