________________
११८
द्वादशारनयचक्रे सुखाद्यात्मकानाञ्च महदादिना क्रमेणारब्धानां सुखादेरात्मत्वेनाभिव्यक्तं कार्यमेषां शब्दादीनाम्, यानि तैरारब्धानि शरीरादीन्याध्यात्मिकानि भूतादीनि बाह्यानि घटादीनि पृथिव्यादीनी ते सर्वे सुखादिमया एव, तन्मयकारणारब्धत्वात् यद्यन्मयैरारब्धं तन्मयं तत् कार्पासिकपटवत्।
अनेकात्मकैकपूर्वकं शरीरमन्वितविकारत्वाच्चन्दनशकलवत्, नैकैकपूर्वकं नापूर्वकं नासत्पूर्वकं वैनाशिकायभिमतवत्, अन्वितत्वात् । अन्वाह च'अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्त भोगामजोऽन्यः॥' सुखश्च दुःखञ्चानुशयञ्च वारेणायं सेवते तत्र तत्रा विशन्ति योनि व्यतिरेकिणस्त्रयः अजस्तु जायामतिसत्यशुद्धः ॥२ 'द्रा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनभनन्योऽभिचाकशीति ॥" इति।
अथ कथं शब्दैकगुणप्रवृत्तिविपदभ्युपगम्यते? त्वन्मतविरोधात्, प्रयोगधात्र न प्रवर्तेतैव शब्दैकगुणाकाशम्, असन्द्रुतेः, पुरुषवद्वन्ध्यापुत्रवद्वेति। ।
शब्दे त्रैगुण्यमस्त्येवेति चेत् साधूक्तमेतदेवाऽऽवाचयितुमवोचम्, शब्दैकगुणवियदप्रवृत्तिप्रसङ्ग इति, ततधात्रिगुणं सुखादि, १. श्वेताश्वतरोपनिषद् अ. ४ श्लो. ५ २. गायेयं इदानीं उपनिषत्सु न कापि दृश्यते । ३. मुण्डकोपनिषद् ३-१-१