________________
११६
द्वादशारनयचक्रे __ अस्तिभवनमेवेदं सन्निहिततथावृत्ति आपत्तिभवनम्, कारणे कार्यस्य सत्त्वात्, यथा घटो भवतीति, पूर्वमघटत्वेन दृष्टं सन्निहितमेव मृदि घटभवनं व्यक्त निर्वर्तते आपद्यत इति।
सा च सनिधिसिद्धिः भोग्यद्वैतभूततायां नाद्वैतत्रैतादितायां व्यतिरेकाभावात्।
न ज्ञेयमन्तरेण ज्ञातृत्वं ज्ञेयासत्त्वात्, अथवाऽनुपपन्नं ज्ञातृत्वमसंज्ञेयत्वात् खपुष्पज्ञत्ववत्, वैधयेणेतरकुसुमज्ञत्ववत्, अथवा झातृत्वमुपपद्यते संज्ञेयत्वादितरकुसुमज्ञत्ववत्, वैधर्मेण खपुष्पज्ञत्ववत्, एवं हि ज्ञातु तृत्वम्, यो हि संज्ञेयं जानीते स तु मुख्यो ज्ञाता, यथा सलिलं सलिलमिति विद्वान्, यः पुनरसंज्ञेयं विजानीते सतुन ज्ञाता, यथा मृगतृष्णिकां सलिलमिति विद्वानिति।
न ज्ञातारमुपद्रष्टारमन्तरेण ज्ञेयत्वं ज्ञातुरसत्त्वात्, एवमेव हि ज्ञेयस्य ज्ञेयता भवितुमर्हति यदि केनचिदनुपहतेन्द्रियज्ञानेन ज्ञायते, अनुपहतेन्द्रियबुद्धिपुरुषज्ञेयघटवत्, यथा न भोग्यमन्तरेण भोक्तृत्वमसद्भोग्यत्वात्, खपुष्पमकरन्दभ्रमवत्, वैधणेतरकुसुममकरन्दभ्रमवत्, सद्भोग्यत्वाद्भोक्तृत्वमिति तत्साधर्मेण वैधर्मेण वा खपुष्पभ्रमवत्, एवमेव हि भोक्तुर्भोक्तृत्वं भवितुमर्हति, यदि सद्भोग्यं भुनक्ति तथा न भोक्तारमन्तरेण भोग्यमसद्भोक्तृत्वात् वन्ध्यासुतयौवनवार्धक्यवत्, सद्भोक्तृकं भोग्यत्वादितरसुतयौवनवार्धक्यवत्, एवमेव हि भोग्यस्य भोग्यत्वं भवितुमर्हति यदि सद्भोक्त्रा भुज्यत इति।