________________
तृतीयो विध्युभयारः
११५
यथा च पुरुषे तथेतरद्रव्यार्थेष्वपि प्रतिस्वं योज्यम्, तद्यथा - विनिद्रावस्थास्थाने पुरुषस्य सामान्यलक्षणं विशेषलक्षणश्च यथा व्याख्यातं तथा नियत्यादावभेदैकत्वं सामान्यलक्षणमतीतानागतवर्तमानवाल्यकौमारयौवनक्रमयोगपद्यादयो निद्रादिवद्विशेषलक्षणमिति व्याख्याय विकल्पद्वयप्रतिषेधस्तथैव कर्त्तव्यः।
अतस्तत्त्वे तावत्संवदति यदयं भवति सोऽस्य भाव इति सर्वगतत्वनित्यत्वदेशकालाभेदात् । इदं पुनर्न तावदिच्छामो यस्तु भवति स कतैवेति, सम्प्रधार्यत्वात्, अकर्तुराकाशादेरपि भवनात्, अभवनव्यावृत्तिमात्रसत्तार्थत्वाद्भवनस्य, कारणपर्यायत्वात् करोतेः अकारणमपि भवत्येव, भवतेः सान्निध्यापत्तिभवनद्वयार्थत्वात्, अस्तिभवतिविद्यतिपद्यतिवर्त्ततीनां सन्निपातषष्ठानां सत्तार्थत्वात्।
असतो भवनाभावादस्त्यादिभवनं सन्निधिमात्रवृत्त्येव तदापत्तिभवनपृथग्भूतम्।
सर्वतन्त्रसिद्धान्तेन विरुद्धमस्वतन्त्रभवनम्, भवतेः कर्तृविहिप्ततिप्रत्ययान्तत्वादित्येतच्चायुक्तम्, तत्रैवानुज्ञातत्वात्, यदुपाद -यैतदभिधीयते । यत्राप्यन्यत् क्रियापदं न श्रूयते तत्रापि 'अस्तिभवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यतेऽर्थ सद्भावात्, यथा वृक्ष इति, अस्तीति गम्यते। अस्ति भवति सनिहितमित्यर्थः। .
१. महाभाष्यम्. अ.. २ पा. ३ सू. १