________________
द्वादशारनयचक्रे
अथ विनिद्रावस्थालक्षणविपरीतोऽपि पुरुषस्तु पुरुष एव, अवधारणभेदात्, विनिद्रावस्थायाः स्वात्मन्यवधार्यमाणविनिद्रावस्यैव लक्षणम्, पुरुषस्य तु लक्षणमेवेति, पुरुषो लक्ष्यत्वेनानियतोऽन्यासामप्यत्यागात्, स ह्यनेकरूपो मेचकवदिति ।
११०
न, उक्तवदवधारणभेदस्यान्याय्यत्वात् प्रतिज्ञातव्याघातात्, घटरूपादित्ववत् विनिद्रैकावस्थालक्षणपुरुषव्यतिरिक्तार्थाभावात् कोऽवधारणार्थः ? पुरुषत्वं प्रागुक्तमवस्थानाम्, अधुना तु पृथक्स्वात्मनस्ता उच्यन्तेऽवस्था इति तत्त्वं पुरुषस्य, न पुरुषत्वं तासां रूपादिघटत्ववत्, यथा रूपादय एव घट इत्येतस्मिन् पक्षे न घटो नाम कश्चित् तथा यद्यवस्था एव पुरुषो युज्येतावधारणम्, तत्तु न युज्यते चैतन्यात्मकैकपुरुषमयत्वप्रतिज्ञाव्याघातात् ।
यदा च तासामेव तत्त्वं पुरुषे तु सा लक्षणमेव, तथा तथा तासामितरेतरात्मस्वभावादवधारणभेदादत्यन्तभिन्नार्थत्वात् सामान्याभावः, ततो विविक्तानेकभेदावस्थामात्रत्वात् सर्वमसर्वगतमिति ननु तदेव दर्शनमेतदप्यापनं लोकवदेव तत्त्वापत्तिरिति ।
अथ विकल्पशब्दार्थत्वादलक्षण एव तस्याज्ञाततत्त्वत्वात् कुतो वा लक्षणम् ? कुतोऽबस्था? इति, तदयुक्तम्, तर्हि चतुरवस्था - वर्णनं कथमुपपद्यते ? अनेकात्मकसर्वगतत्वभावनञ्च?
यद्यस्यैकैका प्रत्येकं सुप्ताद्यवस्था न भवति ततश्च तासामसत्त्वात् कुतोऽस्य भिन्नानामेकत्वापत्त्यात्मिकाऽविकल्पता ?