SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ तृतीयो विध्युभयारः अचिन्त्यमेवेदं चिन्त्यते मया हि पुरुष एवेदमित्यवधार्योक्तं नोक्तमिदमेव पुरुष इति, ऊर्ध्वमधस्तिर्यक् कचित्तत्त्वैकः पुरुषः, अनतिरिक्तपरापराणीयोज्यायोरूपात्म- कत्वात्, वृक्षवदिति। नन्वयमनेकावस्थामात्रस्वतत्त्व एव व्यवस्थापितः, चैतन्यानतिवृत्तिवर्तनात्, तच्च विनिद्रावस्थातोऽनन्यदिति विनिद्रावस्थालक्षण एव पुरुषः, आत्यन्तिकनिद्राविगमरूपनिरूप्यत्वात्, विनिद्रा -वस्थास्वात्मवत्। न ह्यसावितरात्मिका, स्ववृत्तित्यागापत्तेः सा तन्मात्रैव, तन्मात्रत्वे तु पुरुषस्यापि तदवस्थामात्रत्वम्, तस्माज्जाग्रदायवस्थानात्मकत्वादसर्वगतत्वमिति। अथ विनिद्रावस्थालक्षणोऽपि पुरुषः सर्वत्वात् न विनिद्रावस्थामात्र एव ततो विनिद्रावस्थापि न विनिद्रावस्थामात्रैव स्यात्, विनिद्रावस्थालक्षणत्वात् पुरुषस्वात्मवत्। ततश्च प्रत्यवस्थं विनिद्रावस्थावृत्तिः तस्या एवाविशेषण सर्वगतत्वात्-सुषुप्तावस्थापि तृणादि सर्वगतमिति किं पुरुषैकत्वप्रकल्पनया? अलक्षणत्वाच्च विनिद्रावस्थाया अभावः स्यात्, स्वात्मन्य-. स्थितत्वात्, खपुष्पवत्, ततश्च तत्तत्वचतुरवस्थसर्वात्मक पुरुषाभावः, तदभावे किमवशिष्यते ?
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy