________________
तृतीयो विध्युभयारः
अथ किं भवता प्रतिस्वमात्मनो ग्राहे तथा तथा या एता ब्रीह्यड्डुरादिघटपटादिवस्तुव्यापिवृत्तयोऽवस्था उक्तास्तासु पुरुषादितत्त्वमवस्थालक्षणं? उत पुरुषादिलक्षणास्ताः?
यद्यवस्थास्वात्मैव न पुरुषाद्यात्मावस्थास्ताः, ततः पुरुषो नाम न कश्चिदिति रूपादिसमुदयमात्रवाद एवायमन्यो युग पद्भाविरूपादिगुणसमुदयवादतुल्यो युगपदवस्थचतुरवस्था- समुदयवादः । ___ तुरीयत्वप्रतिपादनार्थाभ्युपगतमुक्तिक्रमवदयुगपदवस्थावृत्तेः क्षणिकवादः, वासोवत्।
शून्यवादोऽपि । तद्यथा - चतसृणां न ज्ञानव्यतिरिक्तत्वं, तथातथा त्वयैव ज्ञानात्मना रूपरसादिघटादिसृष्टेः प्रतिपादनात्, सा च कल्पनाज्ञानं तन्मात्रमेव सत्यं, न रूपादि किञ्चित्, स्वप्नवदिति विज्ञानव्यतिरिक्तार्थशून्यवादः, न वा विज्ञानमात्रं निर्विकल्पत्वाश्रयस्य शून्यत्वापत्तेः।