________________
तृतीयो विध्युभयारः
१११ पृथक् पृथगवृत्तसितासितादिवऎक्यापत्त्यात्मकमेचकवर्णाभाववत्, न हि पृथगवृत्ते रूपे द्वे अपि मेचकात्मके भवतः, असनेव त्वसावेवम्, अनवस्थात्वात्, वन्ध्यापुत्रवत्।
अनवस्थात्वेऽचतुरात्मकत्वात् खपुष्पवत्, अथवा किमनेन प्रयासेन, ननु त्वदुक्तेरेव च न स लक्ष्यः, अलक्षणत्वात्, अलक्ष्यत्वमिष्टत्वादसाध्यमिति चेत्? लक्ष्यत्वनिराकृतेरर्थनिराकरणार्थ त्वान्नार्थः, निर्विकल्पत्वादेवार्थोऽपि नैवेति चेनिर्विकल्पज्ञानवदवस्त्वेव त्वदिष्टं तत्त्वम्।
अथात इतधान्यतरोपादानपरित्यागायुक्तत्वादस्य तल्लक्षणतत्त्वाभ्यामवाच्यतैवेत्येतदयुक्तम्, स त्वसन्नेव हि स्यात्, विनिद्रावस्थया सहैकत्वान्यत्वे प्रत्यवचनीयत्वात् खपुष्पवत्, न तदेकं नान्यद्वा वाच्यम्, निरुपाख्यत्वात्, यत्तु सत्तद्विनिद्रावस्थया सहैकत्वान्यत्वे प्रतिवचनीयम् यथा विनिद्रावस्थायाः स्वात्मनो जाग्रदाद्यवस्थास्वात्मनधान्यानन्यत्वे प्रत्यवचनीयत्वात्।
अत एव च तदुभययुक्तत्ववाच्यत्वाभ्युपगम एव, पितृपुत्रवत् तदन्यतरत्यागोपादानायुक्तत्वस्य तदविनाभावात्, अवस्थानामभावेऽनेकदोषप्रसङ्गात्।
यद्यपि च पुरुषस्वात्मैव चतस्रोऽप्यवस्थास्तथापि न तर्हि नामेदानी पुरुषोऽस्ति, अनवस्थत्वात् खपुष्पवत्, अनवस्थस्य तस्याभ्युपगमेऽपि तु पुरुषस्यावस्थानां चतसृणामप्पैक्यं स्यात्,