________________
१०६
द्वादशारनयचक्रे
तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते। अङ्गाराङ्गितमुत्पाते वारिराशेरिवोदकम् ॥ प्रकृतित्वमनापन्नान् विकारानाकरोति सः। ऋतुधामेव ग्रीष्मान्ते महतो मेघसंप्लवान् ॥ इति विधिविधिनयः समाप्तः ।
एषु विधिविधिषु विकल्पः शब्दार्थः, उक्तेषु पुरुषादिष्ववस्थाभ्युपचरितप्रक्रियाभेदकल्पितविकल्पसत्त्वात्तद्वस्तुनिर्विकल्पत्वात्, विद्या तु तत्त्वज्ञानं साऽऽगमविकल्परूपा न भवितुमर्हति वाग्गोचरतिक्रान्तत्वात्तत्वज्ञानविषयानन्तात्मकैकपरमार्थस्य ।
ये त्वेते घटादिशब्दा मेघस्तनितवदेते शब्दा एव केवलाः श्रोत्रग्राह्यत्वानार्थस्वरूपस्य वाचकाः, नन्विदं प्रसिद्धिप्रस्तुतव्यवहारविरुद्धम्, अत्रोच्यते न ब्रूमः प्रतिपादका इति, किं तर्हि? वाचका इति ब्रूमः प्रतिपत्तृसङ्केतवशात्तदुपलक्षणत्वेन प्रतिपादकत्वं न विरुध्यते, मयूरविरुतवद्धि सङ्केताद्वयवहारानुपातेन। ____ अथवा ते सर्व एव शब्दास्तस्यैव चैकस्य ब्रह्मणो लक्षणार्थाः तदेकदेशत्वात् प्रागभिहितप्रत्यक्षप्रसिद्धिवत्, यथा गौर्विषाणी ककुद्मान्, प्रान्तेवालधिः सास्रावानिति, एवञ्च कृत्वाऽऽहुः - "सर्वधातवो भुवोऽर्थमभिदधतीति।
एकोऽनवयवः शब्दो वाक्यार्थः, भवनस्यानवयवत्वात्, एष द्रव्यार्थो विधिविधिनयः, सङ्ग्रहदेशत्वाच्चास्य द्रव्यार्थता, इह तु द्रवति १. मातृकासु अत्र एवं पुष्पिका दृश्यते ।