________________
द्वितीयो विधिविध्यरः।
१०५
न चास्योर्ध्वाधस्तिर्यग्दिक्षु मूर्तिविवर्त्तप्रत्यङ्गानामेकत्वाभिमतभेदवदेकत्वात् कचिदवच्छेदो विद्यते दक्षिणोत्तरयोरपि किमु घटपटयोर्भवनैकमूर्तिविवर्तानवच्छेदात् इति स भावो ध्रुवः कूटस्थोऽविचाली अनपायोपजनोऽविकार्यनुत्पत्तिरवृद्धिरव्ययः । एतानि हि नित्यविशेषणानि भावस्यैव घटन्ते न पुरुषादीनाम्, उक्तवत्।
अस्य प्रत्यक्षप्रमाणसिद्धिरिहैव, यथार्थवस्तुविषयत्वात्, अन्यत्रानुमानतैव भावे, सम्बन्धैकदेशप्रत्यक्षप्रत्ययशेषसिद्धयात्मकत्वात्।
कुतोऽनुमानताऽपि? प्रत्यक्षत्वासिद्धेः, सम्बद्धयोः कदाचिदप्यग्रहणात्, प्रत्यक्षपूर्वत्वे तत्सम्भवात्, तदभावे तदसिद्धेः ।
तत् किमज्ञानमेवापद्यते?, कुतोऽज्ञानमपि तत्प्रत्यक्षम्?, प्रत्यक्षपूर्वकाज्ञानत्रयेऽनन्तर्भावात्, संशयविपर्ययानध्यवसाया अज्ञान -विकल्पाः प्रत्यक्षपूर्वकाः तत्र संशयनीयविपर्ययितव्यविषयप्रत्यक्षात्यन्ताभावात् कुतः संशयविपर्ययौ, अनध्यवसायोऽध्यवसायपूर्वः, स चाधिकोऽवसायोऽध्यवसायस्तद्वयावृत्तिविषयाध्यवसायासम्भवात् कुतोऽनध्यवसायः? । अन्वाह च,
“यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः। सङ्कीर्णमिव मात्राभिश्चित्राभिरभिमन्यते ॥ तथेदममृतं ब्रह्म निर्विकारमविद्यया। कलुषत्वमिवापनं भेदरूपं विवर्त्तते ॥