________________
१०४
द्वादशारनयचक्रे
देशतः कालतो वा स्वरूपत एव भिन्नेष्वर्थेष्वभेदकल्पनाद्वा स्यात्, देशकालायभेदे वा भेदकल्पनात् स्यात्, उभयथाप्यसद्रूपत्वं कल्पनायाः, इह तु देशकालाभ्यामभेदो नास्ति, घटादेः कपालादित्वेन भियमानस्य वस्तुनो यावत् परमाणुशो रूपादिशोऽनभिलाप्यत्वशव भेदात्, कालतश्च क्षणे क्षणेऽन्यत्वात्, तस्मादनभिलाप्यपरमार्थस्य च वस्तुनो घट इति रूपादिरिति ग्रहणमसदध्यारोपात्मकम्, देशकालाभेदाभावात्, खपुष्पवत्।
अभेद एव तु गृह्यते प्रत्यक्षतः भावस्याभिन्नत्वाद्गृह्यमाणस्य च भावत्वात्।
अथ समस्त एव कस्माद्भावो न गृह्यते? अत्र तु समस्तग्रहणं वक्ष्यामः, त्वां तु किश्चित् पृच्छामः पश्यता त्वया घटं किं समस्त एव घटो न गृह्यते? परान्तरादिभागाः किं न प्रत्यक्षाः? आराद्भागा एव किं प्रत्यक्षाः? इति, किञ्च समानदोषत्वादचोद्यमेतत् – भावस्य सर्वगतस्याप्रत्यक्षत्वदोषो मम नास्तीति विशेषं पश्यत एतद् युज्येत वक्तुमित्थं भवति तथा न भवतीति, न तु सर्वत्रैवादर्शनभाक् पक्षो यस्य तस्य।
तत्तु दर्शनमत्रैव निर्वर्त्तते न भेदपक्षे, इह यदेतत् सर्वं तद्भाव एव, तस्य य एकदेशः तस्य ग्रहणे तस्यैव ग्रहणं ततोऽभिन्नत्वात्, तद्भावत्वात् देशस्वात्मवत्, तस्य ह्येकोऽपि प्रथनं प्रतिदेशः सर्वाविभक्तभवनवृत्त्यात्मकत्वात् सार्वरूपमनतिक्रान्तः ततोऽभेदपक्ष एव दर्शनम् । नन्वेकदेशच स एव चेति विप्रतिषिद्धमिति चेन्न ज्ञायमानत्वापेक्षयोक्तत्वात् त्वन्मत्या सावयवदर्शनं नान्यस्येति।